SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ ८६ अभिधानचिन्तामणौ "" शोणादेः ॥ २ । ४ । ३१ ॥ इति ङीः ॥ ११ ॥ सिंहो यानमस्याः सिंहयाना, यौगिकत्वात् सिंहवाहनाऽपि ॥ १२ ॥ मृडस्य भार्या मृडानी ॥ १३ ॥ कतस्याSपत्यं वृद्धं कात्यायनी, गर्गादित्वाद् यत्रि " लोहितादिशकलान्तात् " ॥ २ ॥ ४॥ ६८ ॥ इति ङीः, डायन् चाऽन्तः ॥ १४ ॥ दक्षाजाता दक्षजा, यौगिकत्वाद् दाक्षायणी ॥ १५ ॥ अर्यत इत्यार्या ॥ १६ ॥ कुमारी, अवस्थाभेदात् ॥ १७॥ ११७ ॥ सतीति पूर्वजन्मनि दक्षपुत्रीत्वे नाम, दक्षजेतिवत् ; यद् वामनपुराणे ब्रह्मंस्त्वया समाख्याता मृता दक्षात्मजा सती । सा जाता हिमवत्पुत्रीत्येवं मे वक्तुमर्हसि ॥ १ ॥ सत्यशीलत्वात् सती ।।१८।। शिवा, स्वतः श्रेयस्करीत्वात्; पुंयोगे तु शिवस्य स्त्री शिवी ॥१९॥ महादेवस्य भार्या महादेवी ॥ २० ॥ शर्वस्य भार्या शर्वाणी ॥२१॥ सर्वाणि मङ्गलान्यस्याः सर्वमङ्गला ॥ २२ ॥ भवस्य भार्या भवानी ॥ २३ ॥ कृष्णमैनाकयोः खसा कृष्णखसा, नन्दपुत्रीत्वात् ; मैनाकस्वसा हिमादिपुत्रीत्वात् ॥ २४ ॥ २५॥ मेनाऽद्रिभ्यां जाता मेनाद्विजा मेनाजा, अद्रिजा ॥ २६ ॥ २७ ॥ ईष्ट इत्येवंशीला ईश्वरा “ स्थेश - " ॥ ५ । २ । ८१ ॥ इति वरः, ईश्वरीति तु “ अश्नोतेरीच्चादेः ' ॥ ( उणा-४४२ ) ॥ इति वरटि ङयां सिद्धम् ; ईश्वरस्य भार्येति वा ॥ २८ ॥ ११८ ॥ निशुम्भं शुम्भं महिषं मथति निशुम्भमथनी, शुम्भमथनी, महिषमथनी ॥ २९ ॥ ३० ॥ ३१ ॥ भूतानां नायिका भूतनायिका ॥ ३२ ॥ 66 "" शेषश्चात्र - गौतम कौशिक कृष्णा तामसी बाभ्रवी जया । कालरात्रिर्महामाया भ्रामरी यादवी वरा । ध्वजा शूलधरा परमब्रह्मचारिणी ॥ १ ॥ अमोघा विन्ध्यनिलया षष्ठी कान्तारवासिनी । जाडुली बदरीवासा वरदा कृष्णपिङ्गला ॥ २ ॥ दृषद्वतीन्द्रभगिनी प्रगल्भा रेवती तथा । महाविद्या सिनीबाली रक्तदन्त्येकपाटला ॥ ३ ॥ • एकपर्णा बहुभुजा नन्दपुत्री महाजया । भद्रकाली महाकाली योगिनी गणनायिका ॥ H हासा भीमा प्रकूष्माण्डी गदिनी वारुणी हिमा । अनन्ता विजया क्षेमा मानस्तोका कुहावती ॥ ५ ॥ चारणा च पितृगणा स्कन्दमाता घनाञ्जनी । गान्धर्वी कर्बुरा गार्गी सावित्री ब्रह्मचारिणी ॥ ६ ॥ कोटिश्रीर्मन्दरावासा केशी मलयवासिनी । कालायनी विशालाक्षी किराती गोकुलोद्भवा ॥ ७ ॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy