________________
२ देवकाण्डः ।
लधिमा वशितेशित्वं प्राकाम्यं महिमाऽणिमा ।. . यत्रकामावसायित्वं प्राप्तिरैश्वर्यमष्टधा ॥ ११६ ॥
लघो वो लघिमा, महानपि लघुर्भूत्वा इषीकतूल इव आकाशे विहरति ॥१॥ वशिनो भावो वशिता, भूतानि पृथिव्यादीनि, भौतिकानि गोघटादीनि, तेषु वशी स्वतन्त्रो भवति तेषां त्ववश्यः, तत्कारणतन्मात्रपृथिव्यादिपरमाणुवशीकारात् तत्कार्यवशीकारः, तेन तानि यथाऽवस्थापयति तथाऽवतिष्ठन्त इत्यर्थः ॥१॥ ईष्ट इत्येवंशील ईशी ईशिनो भाव ईशित्वं, तेषां भूतभौतिकानां विजितमूलप्रकृतिः 'सन् य उत्पादो यो विनाशो यच्च यथावदवयवसंस्थानं तेषामाष्टे ॥ १॥ प्रकृष्टः कामोऽस्य प्रकामस्तद्भावः प्राकाम्यं इच्छाऽनभिघातः, नास्य भूतस्वरूपैर्मूर्त्यादिभिरिच्छाऽभिहन्यते, भूमावुन्मज्जति निमज्जति यथोदके ॥ १ ॥ महतो भावो महिमा, अल्पोऽपि नागनगनगरगगनपरिमाणो भवति ॥ १ ॥ अणोर्भावोऽणिमा, महानपि भवत्यणुः ॥ १॥ यत्र कामस्तत्राऽवस्यतीत्येवंशीलो यत्रकामावसायी तद्भावस्तत्त्वं सत्यसङ्कल्पता, विजितगुणार्थतत्त्वो हि यद्यदर्थतया सङ्कल्पयति, तत्तदस्मै प्रयोजनाय कल्पते, विषमप्यमृतकार्ये सङ्कल्प्य भोजयन् जीवयतीति ॥ १॥ प्रापणं प्राप्तिः, सर्वे भावाः संनिहिता भवन्ति तस्य, तद्यथा-भूमिष्ठ एवाङ्गुल्यग्रेण चन्द्रमसं स्पृशति ॥१॥ इत्यैश्वर्यमष्टप्रकारं भवति ॥ ११६ ॥
गौरी काली पार्वती मातृमाता
ऽपर्णा रुद्राण्यम्बिका त्र्यम्बकोमा । दुर्गा चण्डी सिंहयाना मृडानी___ कात्यायन्यौ दक्षजाऽऽर्या कुमारी ॥ ११७ ॥ सती शिवा महादेवी शर्वाणी सर्वमङ्गला । भवानी कृष्णमैनाकखसा मेनाद्रिजेश्वरा ॥ ११८ ॥
निशुम्भशुम्भमहिषमथनी भूतनायिका । . गौरवर्णत्वाद् गौरी ॥ १ ॥ संहारमूर्ती कृष्णवर्णत्वात् काली ॥ २ ॥ पर्वतस्याऽपत्यं पार्वती ॥ ३ ॥ मातॄणां ब्रह्माण्यादीनां माता मातृमाता ॥ ४ ॥ न विद्यन्ते पर्णान्यस्या अपर्णा, तपसि पर्णानामप्यनशनात् ॥ ५ ॥ रुद्रस्य भार्या रुद्राणी "वरुणेन्द्र-" ॥२ । ४ । ६२ ॥ इत्यादिना ङीः, आन् चान्तः ॥ ६ ॥ अम्बैव अम्बिका, जगन्मातृत्वात् ॥ ७॥ त्रीण्यम्बकानि नेत्राण्यस्याः त्र्यम्बका ॥ ८ ॥ अवतीति उमा “ अवेर्हखश्च वा” ॥ ( उणा-३४२ )॥ इति मक् , उ मेति मात्रा तपसे निषिद्धति वा ॥ ९ ॥ दुःखेन गन्तुं शक्यतेऽस्यां दुर्गा "सुगदुर्गमाधारे" ॥५। १ । १३२ ॥ इति डान्तो निपात्यते ॥ १० ॥ चण्डी, कोपनत्वात् " नवा
१२