________________
२ देवकाण्डः ।
८३
वा ॥ ४५ ॥ बिभर्ति कपालं, बिभ्यत्यस्मादिति वा भैरवः " कैरवभैरव - " ॥ ( उणा५१९ ) ॥ इति निपात्यते ॥ ४६ ॥ दिशः कृत्तिश्च वासोऽस्य दिकृत्तिवासाः दिग्वासा नग्नत्वात्, कृत्तिवासा गजाजिनसंव्यानत्वात्; यौगिकत्वाद् दिग्वस्त्रः, चर्मवसन इत्यादयः ॥ ४७ ॥ ४८ ॥ भवत्यस्माद् रजोगुणापन्नाद् विश्वमिति भवः, औणादिकः अः ॥ ४९ ॥ नीलः कण्ठे लोहितश्च केशेषु अतो नीललोहितइति पुराणम् ॥ ५० ॥ सर्व जानाति सर्वज्ञः ॥ ५१ ॥ नाट्यं प्रियमस्य नाट्यप्रियः ॥ ५२ ॥ दैत्ययुद्धे खण्डीभूतः परस्य खण्डपर्शः ॥ ५३ ॥ महापरा देवनटेश्वरा इति महांश्चासौ देवश्च महादेवः, तथा महानटः, नाट्यसृष्टिकारित्वात् ; तथा महेश्वरः महोदधिवद् रूढः ॥ ५४ ॥ ५५ ॥ ५६ ॥ हरत्यघं हरः ॥ ५७ ॥ ॥ ११२ ॥ पशूनां प्रमथानां, भूतानां, उमायाश्च पतिः पशुपतिः, सुरनरतिरश्चां पशुत्वेनोक्तत्वात् " आब्रह्मान्तं लोकाः पशवः " इति स्मृतेः प्रमथपतिः, भूतपतिः, उमापतिः; यौगिकत्वात् पशुनाथः, गणनाथः, भूतनाथः, गौरीनाथ इत्यादयः ।। ५८ ।। ५९ ।। ६० ।। ६१ ।। पिङ्गा जटा ईक्षणं च यस्य स तथा पिङ्गजटः, पिङ्गेक्षणः ।। ६२ ।। ६३ ।। पिनाकं च शूलं च खट्वाङ्गं च गङ्गां च अहिं च इन्दुं च कपालं च बिभर्ति पिनाकभृत् शूलभृत्, खट्वाङ्गभृत्, गङ्गाभृत्, अहिभृत् इन्दुभृत्, कपालभृत् ; यौगिकत्वात् पिनाकपाणिः, शूली, खट्वाङ्गधरः, गङ्गाधरः, उरगभूषणः, शशिभूषणः, कपाली इत्यादयः ।। ६४ ।। ६५ ।। ६६ ।। ६७ ।। ६८ ।। ६९ ।। ७० ।। ११३ ॥ गजस्य, पूष्णः, पुरस्य, अनङ्गस्य, कालस्य, अन्धकस्य, मखस्य असुहृत् गजासुहृत्, गजासुरहन्तृत्वात् ; पूषासुहृत्, दक्षाध्वरध्वंसने हि पूष्णो दन्ता महेश्वरेण पातिताः, यद्वामनपुराणे----
ततः क्रोधाभिभूतेन पूष्णो वेगेन शंभुना ।
मुष्टिनाssहत्य दशनाः पातिता धरणीतले ॥ १॥
पुरासुहृत्, शंभोराग्नेयबाणेन त्रिपुरस्य प्लुष्टत्वात्; अनङ्गासुहृत्, शंभो - स्तृतीयनेत्राग्निना कामस्य दग्धत्वात्; कालासुहृत्, दक्षमखध्वंसे यमस्य जित - त्वात्; अन्धकासुहृत्, अन्धको हि समरे शूलेन शूलिना प्रोतः; मखासुहृत्, दक्षस्य हि मखो महेश्वरेण विध्वंसितः; यौगिकत्वात् गजासुरद्वेषी, पूषदन्तहरः, त्रिपुरान्तकः, कामध्वंसी, यमजित्, अन्धकाऽरिः, दक्षाध्वरध्वंसक इत्यादयः ।। ७१ ।। ७२ ।। ७३ ।। ७४ ।। ७५ ।। ७६ ।। ७७ ।।
शेषश्चात्र-
शंकरे नन्दिवर्धनः ।
बहुरूपः सुप्रसादो मिहिराणोऽपराजितः ॥ कङ्कटीको गुह्यगुरुर्भगनेत्रान्तकः खरुः । परिणाहो दशबाहुः सुभगोऽनेकलोचनः ॥ १ ॥ गोपालो वरवृद्धोऽहिपर्यङ्कः पांसुचन्दनः ।