________________
अभिधानचिन्तामणौ
कालादयो वा ॥ १७ ॥ १०९ ॥ मृत्युं जयति मृत्युञ्जयः " भृवृजि - " ॥ ५ ॥ १ । ११२ ॥ इत्यादिना संज्ञायां खः ॥ १८ ॥ पञ्च मुखानि सद्योजातवामदेवाsघोरतत्पुरुषेशानलक्षणानि अस्य पञ्चमुखः ॥ १९ ॥ अष्टौ मूर्त्तयः क्षितिजलपवनहुताशनयजमानाकाशसूर्यचन्द्रलक्षणा अस्य अष्टमूर्तिः ॥ २० ॥ श्मशानं वेश्माऽस्य श्मशानवेश्मा ॥ २१ ॥ गिरिरस्यास्ति गिरिशः “ लोमपिच्छादेः शेलम् ” ॥ ७ । २ । २८ ॥ इति शः, गिरौ शेते, गिरिं श्यति उपभोगेन तनू - करोतीति वा ॥ २२ ॥ गिरेरीशो गिरीशः ॥ २३ ॥ ऋषिभिः शापेन पातितलिङ्गत्वात् षण्ढः, यद्वामनपुराणे
८२
ततस्तमृषयो दृष्ट्रा भार्गवाङ्गिरसो मुने ! |
क्रोधभाजोऽब्रुवन् सर्वे लिङ्गोऽस्य पततां भुवि ॥ १ ॥ २४ ॥ कपर्दोऽस्याऽस्ति कपर्दी ॥ २५ ॥ ईष्ट इत्येवंशील ईश्वरः " स्थेशभास - " ॥ ५ । २ । ८१ ॥ इति वरः ॥ २६ ॥ ऊर्ध्व लिङ्गमस्य ऊर्ध्वलिङ्गः, नकुलीशमूर्ती ॥ २७ ॥ एका तिस्रश्च दृशो यस्य स तथा एकदृक्, अर्धनारीश्वरमूर्ती महेश्वराङ्गस्य एकदृक्त्वात् ; त्रिदृक् ललाटे नेत्रयोगात्, यौगिकत्वात् एकनेत्रः, विषमनेत्रः ॥ २८ ॥ २९ ॥ भाले दृगस्य भालदृग् ॥ ३० ॥ अर्धनारीश्वरमूर्ती एकः पादोऽस्य एकपात् “ सुसंख्यात् “ ॥ ७ । ३ । १५० ॥ इति पादस्य पाद्भावः । एकत्रिदृगादीनां त्रयाणां द्वन्द्वः ॥ ३१ ॥ ११० ॥ मृडति सुखयति मृडः ॥ ३२ ॥ अट्टहासोऽस्याऽस्ति अट्टहासी ॥ ३३ ॥ घना मेघा वाहनमस्य घनवाहनः, यौगिकत्वात् अब्दवाहनादयोऽपि ॥ ३४ ॥ अहिः शेषनागो बुभेऽस्य भूमूर्तेः अहिर्बुनः, पृषोदरादित्वाद् रेफागमः, द्वाभ्यां पृथक्पदाभ्यां प्रथमैकवचनान्ताभ्यां एकं नामेत्यन्ये, विभक्त्यन्तरेऽपि यथा-" अहये बुधाय नमो बुधाय नमो नमोऽस्तु गणपतये ” ॥ ३५ ॥ विरूपाणि विषमत्वाद् अक्षीण्यस्य विरूपाक्षः “ सक्थ्यक्ष्णः स्वाङ्गे " ।। ७ । ३ । १२६।। इति टः ।।३६।। विषमन्तयति विषान्तकः, समुद्रमथने विषभक्षणात् ॥ ३७॥ महाव्रतं कापालिकलिङ्गं विद्यतेऽस्य महाव्रती ॥ ३८ ॥ वह्निहिरण्यशब्दाभ्यां परो रेतःशब्दः वह्निरेताः वहौ रेतोऽस्येति कृत्वा, देव्या सोढुमशक्यत्वात् अग्नौ हि क्षिप्तं रेतः, अत एव अग्निभूः कुमारः ॥ ३९ ॥ हिरण्यं रेतोऽस्य हिरण्यरेताः, अग्निमूर्तिना यमुना हिरण्यं प्रसूतमिति ॥ ४० ॥ शिवहेतुत्वात् शिवः, शेते वसति प्रलये जगदस्मिन्निति वा शापो हस्वश्च वा ।। ( उणा - ५०६ ) ॥ इति वः ॥ ४१ ॥ अस्थिमयं धन्वाऽस्य अस्थिधन्वा ।। ४२ ।। पुरुषास्थीनि मलते धारयतीत्येवंशीलः पुरुषास्थिमाली ॥ ४३ ॥ १११ ॥ व्योम द्यौः के मूर्धनि शेतेऽस्य व्योमकेशः “ शीर्षे द्यौः समवर्तत " इति श्रुतेः, गङ्गां धारयितुं व्योमव्यापिनः केशा अस्येति वा ॥ ४४ ॥ शिविर्नाम राजा नारायणेन हतः स चेश्वरस्याऽत्यन्तं प्रिय इति तस्याऽस्थीनि शिरसि धृतानि, अतः पिष्टोऽस्थ्यादिरूपेण शिविरत्र शिपिविष्टः पृषोदरादित्वात् ; शिपिरिन्द्रलुप्तवातस्तेन विष्टो व्याप्त इति
<<
""