SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणौ-. मुकुन्दकुन्दनीलाश्च चर्चाश्च निधयो नव ॥ १०७॥ . महापद्माकृतित्वात् महापद्मः ॥१॥ पद्माकृतित्वात् पद्मः पुंसि; वाचस्पतिस्तु- पद्मोऽस्त्रियाम् , इत्याह ॥ १॥ शङ्खाकारत्वात् शङ्खः ॥१॥ मकराकारत्वाद् मकरः ॥ १॥ कच्छपाकारत्वात् कच्छपः ॥१॥ मुकुन्दवर्णत्वाद् मुकुन्दः ॥ १॥ कुन्दवर्णत्वात् कुन्दः ॥१॥ नीलवर्णत्वाद् नीलः ॥ १ ॥ चर्च्यत इति चर्चाः पुंसि ॥ १॥ जैनसमये तु नैसर्पाद्या निधयः, यदवोचाम त्रिषष्टिशलाकापुरुषचरिते नैसर्पः पाण्डुकश्वाथ पिङ्गलः सर्वरत्नकः ।। महापद्मः कालमहाकालौ माणवशङ्खकौ ॥ १॥ तेषामेवाभिधानैस्तु तदधिष्ठायकाः सुराः ।। पल्योपमायुषो नागकुमारास्तन्निवासिनः ॥ २ ॥ १०७ ।। यक्षः पुण्यजनो राजा गुह्यको वटवास्यपि । इज्यत इति यक्षः “मावावद्यमि-" ॥ ( उणा--५६४ ) ॥ इति सः, यक्ष्यत इति वा ॥ १ ॥ पुण्यश्चासौ जनश्च पुण्यजनः ॥ २ ॥ राजते राजा ॥३॥ गुह्यं वित्तं करोति गुह्यकः, गूहतीति वा " कीचक-" ॥ ( उणा--३३ ) ।। इत्यादिशब्दाद् निपात्यते ॥ ४ ॥ वटे वसतीत्येक्शीलो वटवासी ॥ ५ ॥ किंनरस्तु किंपुरुषस्तुरङ्गवदनो मयुः ॥ १०८ ॥ कुत्सितो नरः, अश्वमुखत्वात् किंनरः “ किं. क्षेपे" ॥३।१।११०॥ इति समासः ॥ १॥ एवं किंपुरुषः ॥ २॥ तुरङ्गस्येव वदनमस्य तुरङ्गवदनः ॥३॥ मिनोति मयुः “मिवहिचरिचटिभ्यो वा” ॥ (उणा--७२६ ) ॥ इत्युः ॥ ४ ॥ १०८ ॥ .. शंभुः शर्वः स्थाणुरीशान ईशो रुद्रोड्डीशौ वामदेवो वृषाङ्कः । कण्ठेकालः शङ्करो नीलकण्ठः - श्रीकण्ठोग्रौ धूर्जटिभीमभौ ॥१०९॥ मृत्युञ्जयः पञ्चमुखोऽष्टमूर्तिः श्मशानवेश्मा गिरिशो गिरीशः। पण्ढः कपर्दीश्वर ऊर्ध्वलिङ्ग एकत्रिदृग्भालहगेकपादः ॥ ११० ॥ मृडोऽट्टहासी घनवाहनोऽहि
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy