SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणौ- .. धूमोर्णा तस्य वल्लभा ॥ ९९ ॥ - तस्य यमस्य, वल्लभा भार्या, धूमवद् धूसरा ऊर्णा भ्रूमध्यावर्तोऽस्या धूमोर्णा ॥ १॥ ९९ ॥ पुरी पुनः संयमनी संयम्यन्ते प्राणिनोऽस्यां संयमनी ॥ १ ॥ प्रतीहारस्तु वैध्यतः । विध्यतोऽपत्यं वैध्यतः ॥ १॥ दासौ चण्डमहाचण्डौ अत्यन्तकोपनत्वात् चण्डो महाचण्डश्च ॥ १ ॥ २ ॥ चित्रगुप्तस्तु लेखकः ॥ १० ॥ चित्रे लिखिते गुप्तः, चित्रमेनं गुप्यादिति वा चित्रगुप्तः ॥ १ ॥ १०० ।। स्याद् राक्षसः पुण्यजनो नृचक्षा ... यात्वाशरः कौणपयातुधानौ । रात्रिंचरो रात्रिचरः पलादः कीनाशरक्षोनिकसात्मजाश्च ॥ १०१ ।। कव्यात् कर्बुरनैर्ऋतावसृक्पः रक्ष एव राक्षसः, प्रकृतेलिङ्गवचने बाधन्ते स्वार्थिकाः क्वचित्॥ (लिङ्गा--१३५) ।। इति पुंस्त्वम् ॥ १ ॥ पुण्यश्चासौ जनश्च पुण्यजनो विपरीतलक्षणया ॥ २ ॥ नृन् चष्टे नृचक्षाः “चक्षः शिद् वा" ॥ (उणा--९६९) इत्यस् ॥ ३॥ यातीति यातु क्लीबलिङ्गः “कृसिकमि-" ॥(उणा-७७३ )॥ इति तुन् , यातयति व्यथयतीति वा, यातुधानशब्दैकदेशो वा भीमवत् ; पुंस्यपि धनपालः , यदाह--क्रव्यादा यातवो यातुधानाः ॥ ४ ॥ आ शृणाति हिनस्ति आशरः ॥ ५॥ कुणपस्यायं भक्षकः कौणपः, कुणपं अत्तीति वा “ क्वचित् " ॥ ६ । २। १४५ ॥ इत्यण् ॥ ६॥ यातूनि यातना धीयन्तेऽस्मिन् यातुधानः ॥ ७॥ रात्रौ चरति रात्रिंचरः “ चरेष्टः " ॥५।१। १३८ ॥ इति टे " नवाऽखित्कृदन्ते रात्रेः” ॥ ३ । २ । ११७ ॥ इति वा मोऽन्तः पक्षे रात्रिचरः ॥ ८॥९॥ पलमत्ति पलादः ॥ १० ॥ कनति दीप्यते कीनाशः, कीनमामं मांसं अश्नातीति वा ॥ ११॥ रक्षन्ति अस्मात् रक्षः “ अस्” ॥(उणा-- ९५२) इत्यस् ॥ १२ ॥ नितरां कसति पतिं गच्छति निकसा तस्या आत्मजो निकसात्मजः , यौगिकत्वात् नैकसेय इत्यादयः ॥ १३ ॥ १०१ ॥ क्रव्यमामं मांसमत्तीति व्याद् “ क्रव्यात्क्रव्यादावामपक्वादौ ” ॥ ५। १ । १५१ ॥ इति
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy