________________
२ देवकाण्डः।
हेमा सुगन्धा सुवपुः सुबाहूः सुव्रता सिता ॥ ४ ॥ शारद्वती पुण्डरीका सुरसा सूनृतापि च । सुवाता कामला हंसपादी च सुमुखीति च ॥ ५॥ मेनका सहजन्या च पर्णिनी पुञ्जिकास्थला ।
ऋतुस्थला घृताची च विश्वाचीत्यप्सरःस्त्रियः ॥ ६ ॥ हाहादयस्तु गन्धर्वा गान्धर्वा देवगायनाः ॥ ९७ ॥ गानप्रारम्भे हाहाकरणात् हाहाः पुंसि, गन्धर्वविशेषस्य नामेदम् , हाहा आदिर्येषां ते हाहादयः, आदिशब्दात् हूहूस्तुम्बुरुर्वृषणाश्वो विश्वावसुर्वसुरुचिरित्यादयः । हाहाहूहूरिति पुंलिङ्गमेकमखण्डं नामेत्येके । गन्धौ च हाहाहू हूरिति तु लक्ष्यम् । अव्ययावित्येके, यद्वाचस्पतिः- हसो हाहाहूहू च द्वौ वृषणाश्वश्च तुम्बुरुः । गन्धयन्ते हिंसन्ति दुःखं गन्धर्वाः “गन्धेरर् चान्तः” ॥ ( उणा५०८ ) ॥ इति वः, गौर्धियते वाक् सप्तस्वरसंपन्ना तिष्ठत्यत्रेति वा ॥ १॥ गन्धर्वा एव गान्धर्वाः ॥ २॥ देवानां गायना देवगायनाः ॥ ३ ॥ ९७ ॥
यमः कृतान्तः पितृदक्षिणाशाप्रेतात्पतिर्दण्डधरोऽर्कसूनुः । कीनाशमृत्यू समवर्तिकालौ शीर्णाहिहर्यन्तकधर्मराजाः ॥९८॥
यमराजः श्राद्धदेवः शमनो महिषध्वजः ।
कालिन्दीसोदरश्चापि . यमयति यमः, यमलजातत्वाद् वा ॥ १॥ कृतोऽन्तोऽनेन कृतान्तः ॥ २ ॥ पितृशब्दात् , दक्षिणाशाशब्दात् , प्रेतशब्दाच्च परः पतिः पितृपतिः, दक्षिणाशापतिः, प्रेतपतिः ॥ ३॥४॥५॥ दण्डमस्त्रं धरति दण्डधरः॥ ६ ॥ अर्कस्य सूनुः अर्कसूनुः ॥ ७ ॥ कनति दीप्यते कीनाशः “कनेरीश्चातः” ॥ ( उणा-५३४ )। इत्याशः ॥ ८॥ म्रियतेऽनेन मृत्युः पुंसि “मुस्त्युक्” ॥ (उणा--८०५) ॥ इति त्युक् ॥ ९॥ राज्ञि रके च समं वर्तत इत्येवंशीलः समवर्ती ॥१०॥ कालयति क्षिपत्यायुः कालः ॥ ११ ॥ शीर्णावंही अस्य शीर्णोहिः, शनैश्चरेणास्य दृशाऽवलोकितौ पादौ दग्धौ इति हि प्रसिद्धिः ॥१२॥ हरति प्राणान् हरिः ॥ १३ ॥ अन्तयतीति अन्तकः ॥१४॥ धर्मस्य राजा धर्मराजः ॥१५॥९८॥ यमनेन राजते यमराजः, यमराड् इत्यपि ॥१६॥ श्राद्धे देवः श्राद्धदेवः पितृपतित्वात् ॥ १७ ॥ शमयति शमनः ॥१८॥ महिषो ध्वजोऽस्य महिषध्वजः, महिषवाह्नत्वात् ।।१९।। कालिन्द्याः सोदरः कालिन्दीसोदरः ॥२०॥
शेषश्चात्र--यमे तु यमुनाग्रजः । महासत्यः पुराणान्तः कालकूटः ।।