________________
अभिधानचिन्तामणौइन्द्रस्य द्वाःस्थः, देवान् नन्दयतीत्येवंशीलो देवनन्दी ॥१॥
गजः पुनः ।। ९०॥ ऐरावणोऽभ्रमातङ्गश्चतुर्दन्तोऽर्कसोदरः ।।
ऐरावतो हस्तिमल्लः श्वेतगजोऽभ्रमुप्रियः ।। ९१ ।। इन्द्रस्य गजः ॥९०॥इरावणे भव ऐरावणः॥१॥अभ्रस्थत्वात् अभ्रमातङ्गः, अभ्ररूप इत्येके, यत्कात्यः--ऐरावतं विजानीयात् नागमम्बुदगाचरम् ॥२॥ चत्वारो दन्ता अस्य चतुर्दन्तः ॥ ३ ॥ अर्कस्य सोदरोऽकसोदरः, द्वयोः समुद्रजातत्वात् ॥ ४ ॥ इरावत्यब्धौ जातः ऐरावतः पुंक्लीबलिङ्गः ॥ ५॥ हस्तिनां मल्लः हस्तिमल्लः ॥६॥ श्वेतश्चासौ गजश्च श्वेतगजः ॥७॥ अभ्रतीति अभ्रमुः “ अभ्रेरमुः" ॥ ( उणा-८००) ॥अभ्रे खे माति न भ्राम्यति वा मन्थरगामित्वात् ; यल्लक्ष्यम्-अभ्रम्वां जघनान्तदोलितकरः। तस्याः प्रियोऽभ्रमुप्रियः ॥ ८ ॥
शेषश्चात्र---ऐरावणे मदाम्बरः सदादानो भद्ररेणुः ॥९१॥ - वैजयन्तौ तु प्रासादध्वजौ
इन्द्रस्य प्रासादो ध्वजश्च, वैजयन्ती पताकाऽनयोरस्ति वैजयन्तौ , विजयते विजयन्तो जिष्णुस्तस्येमाविति वा ॥१॥
पुर्यमरावती। .... इन्द्रस्य पुरी, अमराः सन्त्यस्यां अमरावती " अनजिरादि-"॥३॥२१७८॥ इत्यादिना मतौ दीर्घत्वम् ॥ १॥
शेषश्चात्र-पुरे त्वैन्द्रे सुदर्शनम् ॥
सरो नन्दीसरः इन्द्रस्य सरः, नन्दीनाम्ना सरो नन्दीसरः ॥ १॥
- पर्षत् सुधर्मा इन्द्रस्य पर्षत् , शोभनो धर्मोऽस्यां सुधर्मा । यल्लक्ष्यम्-सुधर्माऽनवमा पुरी ॥१॥
नन्दनं वनम् ॥ ९२ ॥ इन्द्रस्य वनम् , नन्दयंति नन्दनम् ॥ १॥ ९२ ॥
वृक्षाः कल्पः पारिजातो मन्दारो हरिचन्दनः ।
सन्तानश्च इन्द्रस्य वृक्षाः, कल्पः संकल्पपूरणत्वात् ॥१॥ पारिणः पारवतोऽग्धेर्जातः पारिजातः ॥ १॥ मन्दन्ते मोदन्ते देवा अनेन मन्दारः "अग्यङ्गिमदिमन्दि-"।