SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ २ देवकाण्डः । अस्येतीन्द्रस्य, द्विषः शत्रवः, ते तु पाकादयः-पात्यात्मानं पाकः "भीणशलिवलि-" ॥ ( उणा-२१)॥ इति कः ॥ १॥ अदन्ति अद्रयः ॥ २॥ वर्तते वृत्रोऽहिः “ ऋज्यजि-" ॥ ( उणा-३८८) ॥ इति रक् ॥ ३ ॥ पुते लोमान्यस्य पुलोमा, पृषोदरादित्वात् तलोपः ॥ ४ ॥ न मुञ्चत्यहंकारं नमुचिः “ नाम्युपान्त्य-- " ॥ ( उणा--६०९) ॥ इति किः, नखादित्वात् साधुः ॥ ५॥ वलति बलः ॥ ६ ॥ ८८ ॥ जम्भते जम्भः, जायत इति वा “गृदृरमि--" ॥ ( उणा३२७ ) ॥ इति भः ॥ ७ ॥ ततो 'वध्याद भिवेषि-' (पृ. ५ श्लो. १०) इत्यादिवचनात् पाकद्विट् , अदिद्विट् , वृत्रद्विद् , पुलोमद्विट् , नमुचिद्विद् , बलद्विट् , जम्भद्विट् इन्द्रः; यौगिकत्वात् पाकशासनादयः ॥ प्रिया शचीन्द्राणी पौलोमी जयवाहिनी । अस्येत्यनुवर्तते । प्रिया भार्या, शचते मधुरं वक्ति शची ॥१॥ इन्द्रस्य भार्या इन्द्राणी “ वरुणेन्द्र--" ॥२।४।६२॥ इत्यादिना डीः , आन् चान्तः ॥ २ ॥ पुलोम्नो मुनेरपत्यं पौलोमी, बाह्रादित्वात् इञ् ॥३॥ जयं वहतीत्येवंशीला जयवाहिनी ॥ ४ ॥ शेषश्चात्र स्यात् पौलोम्यां तु शकाणी चारुधारा शतावरी। महेन्द्राणी परिपूर्णसहस्रचन्द्रवत्यपि ॥ १॥ . तनयस्तु जयन्तः स्याज्जयदत्तो जयश्च सः ॥ ८९॥ इन्द्रस्य तनयः, जयतीति जयन्तः “ तृजिभूवदि --" ॥ (उणा-२२१) ॥ इत्यन्तः ॥ १॥ जय एनं देयात् जयदत्तः “ तिक्कृतौ नाम्नि" ॥५। १। ७१॥ इति साधुः ॥ २॥ जयतीति जयः ॥ ३ ॥ शेषश्चात्र-जयन्ते यागसंतानः ॥ ८९॥ सुता जयन्ती तविषी ताविषी इन्द्रस्य सुता, जयतीति जयन्ती ॥१॥ तवति गच्छति तविषी , ताविषी ॥२॥३॥ उच्चैःश्रवा हयः। इन्द्रस्य हयः, उच्चैः श्रवसी अस्य उच्चैःश्रवाः ॥ १॥ शेषश्चात्र--वृषणश्वो हरेर्हये ॥ मातलिः सारथिः इन्द्रस्य सारथिः , मतलस्यापत्यं मातलिः ॥१॥ शेषश्चात्र---मातलौ हयंकषः स्यात् ॥ देवनन्दी द्वाःस्थः
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy