________________
१. देवाधिदेवकाण्डः ।
त्रिनेत्रपञ्चेषुसप्तपलाशादिषु योजयेत् ।
त्रि-पञ्च- सप्तादिस्थाने अयुग् - विषम शब्दौ त्रिनेत्रादिपदेषु योजनीयौ । यथात्रिनेत्रः, अयुड्नेत्रः, विषमनेत्रश्च शम्भुः ॥ पञ्चेषु, अयुगिषुः विषमेषुश्च कामः । सप्तपलाश:, अयुक्पलाशः, विषमपलाशश्च सप्तपर्णः ॥ उभयत्रादिशब्दात् नवशक्तिः अयुक्शक्तिः, विषमशक्तिश्च शम्भुः ॥ १५ ॥ एवं त्र्यक्ष- पञ्चवाणसप्तच्छ्दादिष्वपि ॥
व्युत्पत्त्यन्तरमाह
गुणशब्दो विरोध्यर्थं नञादिरितरोत्तरः । १६ ॥ अभिधत्ते यथा कृष्णः स्यादसितः सितेतरः ।
गुणवाची शब्दो नञ्पूर्व इतरशब्दोत्तरश्च विरोधिनमर्थमभिधत्ते ॥ १६ ॥ यथाअसितः, सितेतरश्च कृष्णः ॥ एवम् - अकृशः, कृशेतरश्च स्थूल इत्यादि ॥
व्युत्पत्त्यन्तरमाह—
"
वार्ध्यादिषु पदे पूर्वे वडवाग्न्यादिषूत्तरे ॥ १७ ॥ द्वयेऽपि भूभृदाद्येषु पर्यायपरिवर्तनम् ।
वार्ध्यादिषु शब्देषु पूर्वस्मिन्नेव पदे पर्यायस्य परिवर्तनं भवति ॥ यथा - वार्धिः, जलधिः, तोयधिः ॥ आदिशब्दग्रहणात् जलदः, तोयदः नीरदः इत्यादि ॥ वडवाम्न्यादिषु शब्देषु उतरस्मिन्नेव पदे पर्यायस्य परिवर्तनं भवति । यथा-- वडवाग्भिः, वडवानलः वडवावह्निः ॥ आदिशब्दात् सरोजम्, सरोरुहम्, इत्यादि ॥ १७ ॥ भूभृदाद्येषु शब्देषु द्वयेऽपि पूर्वत्र उतरत्र च पदे पर्यायस्य परिवर्तनम् ॥ यथा- भूभृत्, उर्वीभृत् भूधरः, उर्वीधरः ॥ आद्यशब्दात् सुरपतिदेवराजः इत्यादयः ॥
एवं परावृत्तिसहा योगात् स्युरिति यौगिकाः ॥ १८
፡
एवमिति - पूर्वत्र उत्तरत्र उभयत्र च पदे परावृत्तिं पर्यायपरिवर्त्तनं सहन्ते . क्षमन्ते परावृत्तिसहा वार्ध्यादयः शब्दाः योगाद् अन्वयाद् भवेयुः इति यौगिकाः ॥ १८ ॥
मिश्राः पुनः परावृत्त्यसहा गीर्वाणसन्निभाः ।
प्रवक्ष्यन्तेऽत्र
गीर्वाणादयः शब्दाः पूर्वत्र उतरत्र उभयत्र पदे पर्यायपरावृत्तिमसहमानाः मिश्र
१ योगा इत्यपि पाठः ।