________________
अभिधानचिन्तामणौ- .
उक्ता: खस्वामित्वादयः संबन्धभेदाः । ते च यथा भिन्नद्रव्याश्रयास्तथैकद्रव्याश्रया अपि भवन्ति इति दर्शयितुमाह
विवक्षितो हि सम्बन्ध एकतोऽपि पदात्ततः ॥ ११ ॥
प्राक्प्रदर्शितसंबन्धिशब्दा योज्या यथोचितम् । विवक्षानिबन्धनो हि संबन्धः , तत एकस्मादपि वृषादेः संबन्धिपदात् परे संबन्धान्तरनिबन्धना वाहनादयः शब्दा यथोचितं प्रयुज्यन्ते ॥ एतदेवाह
दृश्यते खलु वाह्यत्वे वृषस्य वृषवाहनः ॥ १२ ॥ स्वत्वे पुनर्वृषपतिर्धार्यत्वे वृषलाञ्छनः । अंशो(र्यत्वेऽशुमाली स्वत्वेऽशुपतिरंशुमान् ॥ १३ ॥
वध्यत्वेऽहेरहिरिपुर्भोज्यत्वे चाहिभुक् शिखी । वाह्यवाहकभावसंबन्धविवक्षायां यथा-'वृषवाहनो रुद्रः' इति भवति ॥१२॥ तथा खस्वामिभावसंबन्धविवक्षायां 'वृषपतिः॥धार्यधारकभावसंबन्धविवक्षायां च 'वृषलाञ्छनः' इत्यपि ॥ तथा-धार्यधारकभावसबन्धविवक्षायां यथा-'अंशुमाली' रविः इति भवति । तथा खखामिभावसंबन्धविवक्षायां 'अंशुपतिः, अंशुमान्' इत्यपि ॥१३॥ तथा-वध्यवधम्भावसंबन्धे यथा-'अहिरिपुर्मयूरः' । तथा-भोज्यभोजकभावसंबन्धे 'अहिभुक्' इत्यपि भवति ॥ संबन्धनिबन्धनां व्युत्पत्तिमुक्त्वा व्युत्पत्त्यन्तरमाह
चिरैर्व्यक्तैर्भवेद्व्यक्तेर्जातिशब्दोऽपि वाचकः ॥ १४ ॥
तथाह्यगस्तिपूता दिग् दक्षिणाशा निगद्यते । चिह्नविशेषणैर्व्यक्तनिःसंदेहैर्जात्यभिधायकोऽपि शब्दो व्यक्तेर्वाचको भवेत् । व्यक्ते मतां यातीत्यर्थः ॥ १४ ॥ तथाहीत्यादिनोदाहरणमाह-अगस्तिना ऋषिविशेषेण पूता खस्थित्या पवित्रिता इति व्यक्तं चिह्नम् । तेन चिह्नितो 'दिक्' इति जातिशब्दो दक्षिणाशाया व्यक्तेरभिधायी भवति ॥ एवं 'सप्तर्षिपूता दिक् उत्तराशा', 'अत्रेनयनसमुत्थं ज्योतिश्चन्द्रः' इत्यादयोऽपि ॥ व्युत्पत्त्यन्तरमाह
अयुग्-विषमशब्दौ त्रि-पञ्च-सप्तादिवाचकौ ॥ १५ ॥