________________
अभिधानचिन्तामणौ
योगयुक्ता रूढिमन्तश्च अत्राभिधानचिन्तामणौ नाममालायां प्रवक्ष्यन्ते ।। सन्निमा ग्रहणात् दशरथ-कृतान्त-प्रभृतयः ॥
लिङ्गं तु ज्ञेयं लिङ्गानुशासनात् ॥ १९ ॥ लिङ्गमिति पुंलिङ्गं स्त्रीलिङ्गं नपुंसकलिङ्गं मिश्रलिङ्गं च अस्मदुपज्ञलिङ्गानुशासनात् ज्ञेयं निर्णेतव्यम् । अत एव अस्माभिरमरकोशाद्यभिधानमालास्विवाऽत्र लिङ्गनिर्णयो नोक्तः ॥ इह तु विनेयजनानुग्रहार्थ सन्दिग्धलिङ्गानां नानालिङ्गानां च शब्दानां लिङ्गनिर्णयो वक्ष्यते ॥ १९ ॥ ___ इह हि 'मुक्तगतिः, देवगतिः, मनुष्यगतिः, तिर्यग्गतिः, नारकगतिः' इति जीवानां पञ्च गतयो भवन्ति । तद्भेदात् जीवा अपि । 'मुक्ताः, देवाः, मनुष्याः, तिर्यश्चः, नारकाश्च' इति पञ्चधा भवन्ति । ततोऽभिधास्यमानरूढयौगिकमिश्रशब्दविभागमुक्त्वा प्रथमादिकाण्डेष्वभिधास्यमानमुक्तादिनामक्रमनिर्देशमाह-.
देवाधिदेवाः प्रथमे काण्डे देवा द्वितीयके। . नरास्तृतीये तिर्यञ्चस्तुर्य एकेन्द्रियादयः ॥ २० ॥ एकेन्द्रियाः पृथिव्यम्बुतेजोवायुमहीरुहः । कृमिपीलकलूताद्याः स्युर्द्वित्रिचतुरिन्द्रियाः ॥ २१ ॥ पञ्चेन्द्रियाश्चेभकेकिमत्स्याद्याः स्थलगाम्बुगाः । पञ्चेन्द्रिया एव देवा नरा नैरयिका अपि ॥ २२ ॥ नारकाः पञ्चमे साङ्गाः षष्ठे साधारणाः स्फुटम् ।
प्रस्तोष्यन्तेऽव्ययाश्चात्र देवाधिदेवा अर्हन्तो वर्तमानातीतानागताः । तद्वाचकाः शब्दा अपि देवाधिदेवाः, वाच्यवाचकयोरभेदोपचारात् ॥ एवं वक्ष्यमाणदेवादिष्वपि योज्यम् ॥ साङ्गा इति सर्वत्र संबध्यते ॥ ततः प्रथमे काण्डे गणधराद्यङ्गैः सह देवाधिदेवाः सर्वप्राधान्यात् ॥ द्वितीये काण्डे देवाः साङ्गाः ॥ तृतीये काण्डे मनुष्या: साङ्गाः । चतुर्थे तिर्यञ्चः साङ्गाः ॥ ते च एकेन्द्रियादयः ॥ २० ॥ तत्र एकं स्पर्शनं इन्द्रियं येषां ते एकेन्द्रियाः पृथ्वीकायादयः पञ्च ॥ तत्र पृथ्वीकायोऽनेकविधः-शुद्धपृथ्वीशर्करावालुकादिः । अप्कायो हिमादिः। तेजःकायोऽङ्गारादिः । वायुकाय उत्कलिकादिः । वनस्पतिकायः शैवलादिः । द्वे स्पर्शन--रसने, त्रीणि स्पर्शनरस
१ नर इत्यपि पाठः।