________________
__ २ देवकाण्डः। · इन्द्रो हरिर्दश्च्यवनोऽच्युताग्रजो
___ वज्री विडोजा मघवान् पुरन्दरः । प्राचीनबर्हिः पुरुहूतवासवौ
संक्रन्दनाऽऽखण्डलमेघवाहनाः ॥ ८५ ॥ सुत्रामवास्तोष्पतिदल्मिशका
. वृषा शुनासीरसहस्रनेत्रौ । पर्जन्यहर्यश्वऋभुक्षिबाहु
दन्तेयवृद्धश्रवसस्तुरापाट् ॥ ८६ ॥ सुरर्षभस्तपस्तक्षो जिष्णुर्वरशतक्रतुः । कौशिकः पूर्वदिग्देवाऽप्सरःस्वर्गशचीपतिः ॥ ८७ ॥
पृतनापाड्डप्रधन्वा मरुत्वान् मघवा इन्दति इन्द्रः “ भीवृधि-" ॥ ( उणा-३८७ ) ॥ इति रः ॥१॥ हरति दैत्यप्राणानिति हरिः ॥ २॥ दुष्टं च्यवते परदारेषु रेतश्च्युतेर्तुश्च्यवनः, नन्द्यादित्वादनः । दुःखेन च्यवते रणाद् वा ॥ ३ ॥ अच्युतस्याऽप्रजो अच्युताग्रजः ॥ ४ ॥ वज्रमस्यास्ति वज्री ॥५॥ वेबेष्टि विड् व्यापकं ओजोऽस्य चिडौजाः पृषोदरादित्वात् , विडं भेदकं ओजो यस्येति वा ॥ ६ ॥ मघः सौख्यमस्याऽस्ति मघवान् , मघो देवसभा सोऽस्यास्तीति वा ॥ ७ ॥ पुराणि अरीणां दारयति, त्रिपुरं वा पुरन्दरः “ पुरन्दरभगन्दरौ” ॥ ५।११११४ ॥ इति खान्तो निपात्यते ॥ ८॥ प्राचीनमुखा बर्दिषो दर्भा अस्य प्राचीनबर्हिः । यद्विष्णुपुराणे
प्राचीनामाः कुशास्तस्य पृथिव्यां विश्रुता मुनेः ।
प्राचीनबर्हिरभवत् ख्यातो भुवि महाबलः ॥ १ ॥९॥ - पुरु प्रभूतं हूतं यज्ञेष्वाह्वानमस्य पुरुहूतः ॥ १० ॥ वसति खर्गे वासवः " मणिवसेर्णित् ” ॥ ( उणा-५१६ ) ॥ इत्यवः, वसुरेव वा प्रज्ञाद्यण् , वस्वपत्यं वा ॥ ११ ॥ संक्रन्दयत्यरिस्त्रीः संक्रन्दनः ॥ १२ ॥ आखण्डयत्याखण्डलः ॥ १३ ॥ मेघो वाहनमस्य मेघवाहनः, इन्द्रो हि मेघानाविश्य वर्षति ; मेघऐरावतो वा, अभ्राधिष्ठातृत्वात् ॥ १४॥८५ ॥ सुष्ठु त्रायते सुत्रामा मन् , शोभनं त्राम बलमस्य वा । बाहुलकाद् दीर्घत्वे सूत्रामाऽपि ॥ १५ ॥ वास्तोहक्षेत्रस्याऽधिछाता वास्तोष्पतिः " वाचस्पतिवास्तोष्पति-" ॥ ३ । २ । ३६ ॥ इति षष्ठयलुपि षत्वम् ॥ १६ ॥ दलति गिरीन् दल्मिः " नीसाब्युशवलिदलिभ्यो मिः" ॥(उणा-६८७) ॥ इति मिः ॥ १७ ॥ शक्नोति शक्रः " भीवृधि-” ॥ (उणा-३८७)॥