SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ २ देकाण्डः । घनोपलो मेघग्रावा, कीर्यते करकः त्रिलिङ्गः " दृकुन-" ॥( उणा--२७ ) ॥ इत्यादिना अकः ॥ १॥ शेषश्चात्र--करकेऽम्बुघनो मेघकफो मेघास्थि पुञ्जिका ॥ बीजोदकं तोयडिम्भो वर्षाबीजमिरावरम् ॥ काष्ठाऽऽशा दिग् हरित् ककुप् ॥ ८० ॥ काशते काष्ठा ॥ १॥ आऽश्नुते आशा ॥ २॥ दिशत्यवकाशं दिक् ऋत्विग्दिश्-" ॥ २ । १ । ६९ ॥इति गत्वम् ॥ ३॥ हरन्त्यनया हरित् "हृसृरुहियुषितडिभ्य इत् " ॥ (उणा--८८७) ॥ इति इत् ॥ ४ ॥ कं वायु स्कुम्नाति विस्तारयति ककुप् “ककुत्रिष्टुबनुष्टुभः” ॥ ( उणा-९३२ ) ॥ इति क्विबन्तो निपात्यते । एते स्त्रीलिङ्गाः ॥ ५॥ ८० ॥ पूर्वा प्राची - पृणाति पूर्वा " निघृषि-" ॥ (उणा-५११) ॥ इति वः कित् , पूर्वति व्याप्नोतीति वा ॥ १ ॥ प्रथममस्यामञ्चत्यादित्य इति प्राची क्विपि “अञ्चः ॥ २।४। ३ ॥ इति डीः ॥ २॥ दक्षिणाऽपाची दक्षते शीघ्रं गच्छत्यस्यां रविरिति दक्षिणा “द्रुवृहि"- ॥ (उणा-१९४) ॥ इति इणः ॥ १ ॥ अपाञ्चत्यस्यां रविरित्यपाची । जपादित्वाद् वत्वे अवाची इत्यपि ॥ २॥ प्रतीची तु पश्चिमा । अपरा प्रत्यञ्चति रविरस्यां प्रतीची ॥ १ ॥ पश्चाद् भवा पश्चिमा “पश्चादाद्यन्ताग्रादिमः” ॥ ६।३।७५ ॥ इतीमः ॥२॥ न पृणाति रविश्चिरमेतामपरा ॥३॥ शेषश्चात्र-यथाऽपरेतरा पूर्वाऽपरा पूर्वेतरा तथा ॥ . अथोत्तरोदीची · अतिशयेनात्कृष्टा उत्तरा "द्वयोर्विभज्ये च तरप्" ॥७॥३॥६॥ इति तरप्, उत्तरतीति वा ॥ १ ॥ उत्तरमञ्चत्यर्कोऽस्यां उदीची ॥ २ ॥ शेषश्वात्र-ययोत्तरेतराऽपाची तथाऽपाचीतरोत्तरा ॥ विदिक् त्वपदिशं प्रदिक् ॥ ८१ ॥ विशिष्टा दिक् विदिक् उभयव्यपदेशात् , यदाहुः–यान्यासामन्तरालानि विदिशः प्रदिशश्च ताः ॥ १ ॥ दिशोरिदमपादिशं, विभक्त्यर्थेऽव्ययीभावे "शर
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy