SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ ६६ अभिधत्नचिन्तामणौ दरादित्वात् ॥११॥ हन्यते वायुना घनः “ मूर्त्तिनिचिताभ्रे घनः ॥५।३।३७ ॥ इत्यन्तो निपात्यते ॥ १२ ॥ धारां धरति धाराधरः आयुधादिभ्यो धृगोऽदण्डादेः " ।। ५।१।९४।। इत्यच् || १३ || वाहश्च दश्च मुक् च धरश्च वाहदमुग्धराः, ते जलात् परा मेघस्य वाचका इत्यर्थः जलवाहः, जलदः, जलमुक्, जलधरः, यौगिकत्वात् वारिवाहः, वारिदः, वारिमुक्, वारिधरः, इत्यादयः । अभ्रवर्ज सर्वे: पुंलिङ्गाः । इन्द्रवंशेन्द्रवज्रयोरुपजातिरियम् ॥ १४ ॥ १५ ॥ १६ ॥ १७ ॥ शेषश्चात्र मेघे तु व्योमधूमो नभोध्वजः । गण्डायित्नुर्गदायित्नुर्वार्मसिवारिवाहनः ॥ खतमालोऽपि ॥ ७८ ॥ << " कादम्बिनी मेघमाला कमाददते कादम्बाः मेघाः ते सन्त्यस्यां कादम्बिनी, कदम्बविकासः कादम्बः सोsस्त्यस्यां वा; मेघमाला मेघपङ्किः । कालिकाऽपि ॥ १ ॥ दुर्दिनं मेघजं तमः । दुष्टं दिनमत्र दुर्दिनं, मेघाज्जातं मेघजं, तमोऽन्धकारं, यद्भागुरिः--दुर्दिनं ह्यन्धकारो ऽब्दैः । वार्दलमपि ॥ १ ॥ आसारो वेगवान् वर्षः । आसरणमासारः, स वेगवान् वर्ष इत्युच्यते ॥ १ ॥ शेषश्चात्र -- अथासारे धारासंपात इत्यपि ॥ वाताऽस्तं वारि शीकरः ॥ ७९ ॥ वातेनास्तं क्षिप्तं वातास्तम्, शीकते सिञ्चति शीकरः " ऋछिचटि " ॥ ( उणा--३९७ ७ ) ॥ इत्यरः ॥ १ ॥ ७९ ॥ वृष्टयां वर्षणवर्षे वर्षणाद् वृषभ इति भाष्यकारवचनाद् वर्षणमिति साधुः ॥ १ ॥ वर्ष पुंक्लीबलिङ्गः, “ वर्षादयः क्लीबे " || ५|३|२९ ॥ इत्यल् | यद्वाचस्पतिः -- अथ वृष्टिर्वर्षमस्त्री केचिदिच्छन्ति वर्षणम् ॥ २ ॥ तद्विघ्ने ग्राहग्रहाववात् । तद्विघ्ने त्रृष्टिविघ्ने अवात्परौ ग्राहग्रहौ अवग्राहः, अवग्रहः “ वर्षविघ्नेऽवाद् महः” ॥ ५ । ३ । ५० ॥ इति वा अल् ॥ १ ॥ २ ॥ घनोपलस्तु करकः
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy