________________
अभिधानचिन्तामणौ
निदाघः व्यञ्जनाद् घनि “न्यङ्गमेघादयः"॥४।१।११२॥ इति घत्वम् ॥४॥ तपति तपः अच्, यक्लक्षम्-तपेन वर्षा शरदा हिमागमः ॥ ५॥ ऊष्मयतीति ऊष्मः, ऊष्मप्रतिकृतिर्वा ॥ ६॥ शेषश्चात्र-ग्रीष्मे तूष्मायणो मतः आखोरपद्मौ ॥
वर्षास्तपात्ययः प्रावृड् मेघात्कालागमौ क्षरी ॥ ७१॥ वियते छाद्यते नभोऽत्र मेधैरिति वर्षाः " वृकृतृमीङ्माभ्यः षः” ॥ (उणा५४० ) ॥ इति षः, वर्षमस्त्यासु, वर्षन्तीति वा; नित्यबहुवचनान्तः स्त्रीलिङ्गश्च । वरिषा इत्यपि ॥ १ ॥ तपस्यात्ययोऽत्र तपात्ययः ॥ २॥ प्रवर्षन्त्यस्यां मेघाः प्रावृट् स्त्रीलिङ्गः “गतिकारकस्य-"॥ ३ । २ । ८५ ॥ इत्यादिना क्विपि दीर्घः ॥ ३ ॥ मेघशब्दात्परः कालः, आगमश्च मेघकालः ॥ ४ ॥ मेघागमः ॥ ५॥ क्षरा मेघाः सन्त्यत्र क्षरी ॥ ६ ॥ ७१ ॥
. शरद् घनात्ययः
शीर्यन्तेऽस्यां पाकेनौषधयः शरद् स्त्रीलिङ्गः, “शृदृभसेरद्” ॥( उणा८९४ ) ॥ इत्यद् ॥ १ ॥ घनस्यात्ययोऽत्र घनात्ययः ॥२॥
अयनं शिशिराद्यैस्त्रिभिस्त्रिभिः । अयतेऽर्कोऽनेनेत्ययनम् , त्रिभिस्त्रिभिरिति शिशिरायैवर्षाद्यैश्च ॥ १ ॥ ... अयने द्वे गतिरुदम् दक्षिणाऽर्कस्य वत्सरः ॥ ७२ ॥
उदगुत्तरा, दक्षिणाऽपाची याऽर्कस्य गतिस्ते द्वे अयने उत्तरायणं दक्षिणायनञ्च, ते मिलिते वत्सरो वर्षे भवति, वसन्ति ऋतवोऽत्र वत्सरः “मज्यजि-" ॥ (उणा४३९) ॥ इत्यादिना सरः ॥ २ ॥ ७२ ॥
स संपर्यनूभ्यो वर्ष हायनोऽब्दं समाः शरत् । स वत्सरः, संपर्यनूभ्यः परः-संवत्सरः, परिवत्सरः, अनुवत्सरः, उद्वत्सरः ॥४॥ वृणोति छादयति वर्षम् ॥ ५॥ जहाति जिहीते वा भावान् हायनः "हः कालव्रीह्योः" ॥५।१।६८॥ इति टनण् ॥ ६ ॥ आप्यते अब्दः “ आपोऽप् च " ॥ ( उणा-२३८ ) ॥ इति दः । वर्षादयस्त्रयः पुंक्लीबलिङ्गाः ॥ ७ ॥ समन्ति समाः स्त्रीलिङ्गः, सह मान्ति वर्तन्ते ऋतव आसु वा; बहुत्वेऽयम् ॥ ८ ॥ शीर्यत इति शरत् स्त्रीलिङ्गः ॥ ९ ॥ शेषश्चात्र-वर्षे तु ऋतुवृत्तियुगांशकः । - कालग्रन्थिर्मासमलः संवत् सर्वर्तुशारदौ ॥
वत्स इद्वत्सर इडावत्सरः परवाणिवत् । ... संवदित्यनव्ययम् । अव्ययं त्वव्ययेषु वक्ष्यते ॥