SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ २ देवकाण्डः । ६१ कार्तिकिको बाहुलोज कार्तिकी पौर्णमास्यस्य कार्त्तिकः ॥ १ ॥ एवं कार्त्तिकिकः ॥ २ ॥ बाहुल: ॥३॥ ऊर्जयन्ति बलिनो भवन्ति प्राणिनोऽत्र ऊर्जः “ पुन्नाम्नि घः ॥ ५|३|१३० ४ ॥ शेषश्चात्र – कार्त्तिके सैरकौमुदौ ॥ द्वौ मार्गादिकावृतुः ॥ ६९॥ मासाविति शेषः । मार्गादिकाविति मार्गपौषौ, माघफाल्गुनो, चैत्रवैशाखी, ज्येष्ठाषाढौ, श्रावणभाद्रपदौ, आश्विनकार्त्तिकाविति । इयर्त्ति ऋतुः पुंसि, यत्कात्यः - " आदाय मार्गशीर्षाच्च द्वौ द्वौ मासावृतुर्मतः " । हेमन्ताद्धि वत्सरस्यारम्भः || १ ॥ ६९ ॥ हेमन्तः प्रसलो रौद्रः हन्ति दिनमसौ, हिन्वन्ति वर्द्धन्ते रात्रयोऽत्रेति वा हेमन्तः “सीमन्तहेमन्त - भदन्तदुष्वन्तादयः”॥ (उणा - २२२ ) ॥ इत्यन्तान्तो निपात्यते । हिमोऽन्तोऽस्येति पृषोदरादित्वाद् वा ॥ १ ॥ प्रकर्षेण सलति प्रसलः ॥ २ ॥ रुद्रस्यायं पूजाहेतुत्वाद् रौद्रः ॥ ३ ॥ शेषश्चात्र —— हिमागमस्तु हेमन्ते ॥ अथ शेषशिशिरौ समौ । शेषस्यायं पूजाहेतुत्वात् शैषः ॥ १ ॥ शशति शीघ्रं गच्छति दिनमत्र शिशिरः पुंक्लीबलिङ्गः “शवशशेरिच्चातः " ॥ ( उणा - ४१३ ) ॥ इति इरः ॥ २ ॥ वसन्त इष्यः सुरभिः पुष्पकालो बलाङ्गकः ।। ७० ।। वसत्यस्मिन् सुखं, वस्ते भुवं वा वसन्तः पुंक्लीबलिङ्गः “ तृजिभूवदि - " ॥ ( उणा - २२१ ) ॥ इत्यादिना अन्तः ॥ १ ॥ इषस्य तुल्यः समरात्रिन्दिवत्वादिष्यः शाखादित्वाद् यः, एषणमिट् पुष्पादिवाञ्छा तस्यां साधुरिति वा इष्यः पुंक्लीबलिङ्गः, यद्वाचस्पतिः-वसन्ते त्वस्त्रियामिष्यः ॥ २ ॥ सुष्ठु रभते सुरभिः पुंसि “ नाम्युपान्त्य - " ॥ ( उणा - ६०९ ) ॥ इति बहुवचनात् किदिः ॥ ३ ॥ पुष्पाणां कालः समयः पुष्पकालः ॥ ४ ॥ बलं वीर्यमङ्गेऽस्माद् बलाङ्गकः ॥ ५ ॥ . शेषश्चात्र – वसन्ते पिकबान्धवः पुष्पसाधारणश्चापि ॥ ७० ॥ उष्ण उष्णागमो ग्रीष्मो निदाघस्तप ऊष्मकः । ओषति उष्णः (( घृवीह्वा - "॥ ( उणा -१८३ ) ॥ इति णः कित् ॥ १॥ उष्णस्य धर्मस्यागमोऽत्र उष्णागमः ॥ २ ॥ प्रसते जलं ग्रीष्मः “ रुक्मग्रीष्म ( उणा - ३४६ ) ॥ इत्यादिना मान्तो निपात्यते ॥ ३ ॥ निदह्यन्तेऽस्मिन् इति 11 ९
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy