SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ६० अभिधानचिन्तामणौ- .. चैत्री पौर्णमास्यस्य चैत्रः ॥ १॥ एवं चैत्रिकः ॥ २ ॥ मन्यते मधुः पुंलिङ्गः “ मनिजनिभ्यां धतौ च " ॥ ( उणा-७२१ ) ॥ इत्युः। शेषश्चात्रचैत्रे मोहनिकः कामसखश्च फाल्गुनानुजः ॥ वैशाखे राधमाधवौ ॥ ६७ ॥ वैशाखी पौर्णमास्यस्य वैशाखस्तत्र ॥ १ ॥ एवं राधः ॥ २ ॥ मधुरेव माधवः प्रज्ञादित्वादण् ॥ ३ ॥ शेषश्चात्रवैशाखे तूत्सरः ॥ ६ ॥ ज्येष्ठस्तु शुक्रः वासरैर्वृद्धतमत्वात् ज्येष्ठः ॥१॥ शोचन्ति पान्था अत्र शुक्रः, पुंक्लीबलिङ्गः ॥२॥ शेषश्चात्रज्येष्ठमासे तु खरकोमलः ज्येष्ठामूलीय इति च ।। अथाऽऽषाढः शुचिः स्यात् आषाढी पौर्णमास्यस्य आषाढः ॥ १॥ शोचन्ति पान्था अत्र शुचिः, पुंसि ॥२॥ श्रावणो नभाः। श्रावणिकः श्रावणी पौर्णमास्यस्य श्रावणः ॥ १॥ एवं श्रावणिकोऽपि ॥२॥ नभ्यति हिनस्ति पान्थानिति नभाः पुंसि ॥ ३ ॥ .. अथ नभस्यः प्रोष्ठभाद्रपरः पदः ॥ ६८ ॥ भाद्रश्चापि नभसि साधुनभस्यः ॥१॥ प्रौष्ठभाद्राभ्यां परः पद इति प्रौष्ठपदी पौर्णमास्यस्य प्रौष्ठपदः ॥ २ ॥ एवं भाद्रपदः ॥ ३ ॥ ६८ ॥ भीमवद्भद्रया युक्ता पौर्णमासी भाद्री साऽस्त्यस्य भाद्रः, भाद्रपदैकदेशो वा ॥ ४ ॥ आश्विने त्वाश्वयुजेषौ आश्विनी पौर्णमास्यस्य आश्विनस्तत्र ॥ १॥ एवमाश्वयुजः ॥ २ ॥ इष्यते इतीषः “ तुदादिविषिगुहिभ्यः कित् " ॥ ( उणा-५) ॥ इति अः कित् ॥ ३ ॥ अथ कार्तिकः ।
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy