SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ २ देवकाण्डः।। ५९ · दृष्टेन्दुस्तु सिनीबाली सिता बाला चन्द्रकलाऽस्यां सिनीबाली पृषोदरादित्वात् ॥ १ ॥ __ भूतेष्टा तु चतुर्दशी ॥ ६५ ॥ भूतानामिष्टा भूतेष्टा ॥ १ ॥ चतुर्दशानां तिथीनां पूरणी चतुर्दशी ॥२॥६५॥ पक्षौ मासः माति मिमीते वा मासः, पुंक्लीबलिङ्गः “मावावद्यमि--” ॥ (उणा--५६४) ॥ इति सः । मस्यते परिमीयते सावनचान्द्रसूर्यादिभेदेनेति वा घञ् ॥ १ ॥ शेषश्चात्रमासे वर्षांशको भवेत् वर्षकोशो दिनमलः ॥ वत्सरादिर्मार्गशीर्षः सहः सहाः। आग्रहायणिकश्च - वत्सरस्यादिवत्सरादिः ॥ १॥ मार्गशीर्षी पौर्णमास्यस्य मार्गशीर्षः “सास्य पौर्णमासी" ॥ ६।२। ९८ ॥ इत्यण् । यौगिकत्वाद मार्गी पौर्णमास्यस्य मार्गः ॥ २ ॥ सहते सहः, अच् ॥ ४ ॥ सहते लोकोऽस्मिन् शीतमिति सहाः, पुंलिङ्गः " अस्" ॥ ( उणा-९५२) ॥ इत्यस् ॥ ४ ॥ आग्रहायणी पौर्णमास्यस्य आग्रहायणिकः “ आग्रहायण्यश्वत्थादिकण् ” ॥ ६ । २ । ९९ ॥ ___ अथ पौषस्तैषः सहस्यवत् ॥ ६६ ॥ पुष्येण चन्द्रयुक्तेन युक्ता पौर्णमासी पौषी साऽस्यास्ति पौषः ॥ १ ॥ एवं तषः ॥ २ ॥ सहसि साधुः सहस्यः स इव सहस्यवत् । यथा सहस्यः पौषवाची तथा तेषोऽपीत्यर्थः ॥ ३ ॥ ६६ ॥ माघस्तपाः माघी पौर्णमास्यस्य माघः ॥ १ ॥ तपति तपाः, पुंक्लीबलिङ्गः॥ · फाल्गुनस्तु फाल्गुनिकस्तपस्यवत् । 'फाल्गुनी पौर्णमास्यस्य फाल्गुनः ॥ १॥ एवं फाल्गुनिकः “ चैत्रीकार्तिकीफाल्गुनीश्रवणाद् वा” ॥६।२। १०० ॥ इति इकण् ॥ २॥ तपसि साधुस्तपस्यः ॥३॥ शेषश्चात्र फाल्गुनालस्तु फाल्गुने ॥ - चैत्रो मधुश्चैत्रिकश्च
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy