SearchBrowseAboutContactDonate
Page Preview
Page 619
Loading...
Download File
Download File
Page Text
________________ ६ षष्ठः काण्डः। ६१९ ननुच स्याद् विरोधोक्ती ननुचेत्यव्ययसमुदायः । यथा-ननुच कः शब्दः ?, इति ॥१॥ पक्षान्तरे तु चेद् यदि । चिनोति चेत् " संश्चद्-" ॥ ( उणा-८८२ ) ॥ इति निपात्यते ॥ १॥ यदति यदि विच, बाहुलकाद् गुणाभावः । यथा--"सन्तश्चेदमृतेन किं यदि खलास्तत कालकूटेन किम्" ? ॥२॥ शनैर्मन्दे शं सुखं नयति शनैः “ शमो नियो डैस् मलुक् च "॥ ( उणा-१००४ ) ॥ इति साधुः । यथा-"शनैर्याति पिपीलक: ॥ ४ ॥ अवरे त्वर्वाक् "अवरः परादन्यस्तत्र, अवरमञ्चत्सर्वाक पृषोदरादित्वात् । यथा-वर्षात षोडशादर्वाक् ॥ १॥ रोषोक्तावुम् ऊयते उ बाहुलकात् किन् म् । यथा-"उं सैवास्मि तव प्रिया" ॥१॥ नतौ नमः ॥ १७८ ॥ . नमनं नमः " अस" ॥ (उणा-९५२)॥ इत्यस् । यथा .. . "नमो दुर्वाररागादिवैरिवारनिवारिणे । .. अर्हते योगिनाथाय महावीराय तायिने" ॥ इति ॥ १॥ नमःशब्दश्चार्य शास्त्रान्ते मङ्गलार्थः, यतो मङ्गलादीनि, मङ्गलमध्यानि, मङ्गलान्तानि च शास्त्राणि भवन्तीति । शेषश्चात्र आनुकूल्यार्थकं प्राध्वमसाकल्ये तु विच्चन । तु हि च स्म ह वै पादपूरणे, पूजने स्वती ॥ वद वा यथा तथैवैवं साम्येऽहो ही च विस्मये । स्युरेवं तु पुनः वेत्यवधारणवाचकाः ॥ ऊं पृच्छायामतीते प्राक् निश्चयेद्धालसा द्वयम् । अतो हेतौ महः प्रत्यारम्भेऽथ स्वयमात्मनि ॥ प्रशंसने तु सुष्ठु स्यात् परश्वः श्वः परेऽहनि । अद्यात्राइन्यथ पूर्वेऽहीत्यादौ पूर्वेधुरादयः ॥ समानेऽहनि सद्यः स्यात् परे त्वहि परेद्यवि ।
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy