________________
६०४
अभिधानचिन्तामणौआभा राढा विभूषा श्रीरभिख्याकान्तिविभ्रमाः । लक्ष्मीश्छाया च शोभायां
आभानमाभा “ उपसर्गादातः" ॥ ५। ३ । ११० ॥ इत्यङ् ॥ १॥ राजत्यनया राढा, भिदादित्वात् निपात्यते ॥२॥ विभूष्यतेऽनया विभूषा ॥ ३ ॥ श्रयणशीला श्रीः स्त्रीलिङ्गः, " दिद्युद्दद्-" ॥ ५। २ । ८३ ॥ इति क्विपि निपात्यते ॥ ॥ ४ ॥ अभिख्यायतेऽनया अभिख्या ॥ ५ ॥ काम्यतेऽनया कान्तिः ॥ ६ ॥ विभ्र. मत्यनेन विभ्रमः ॥ ७ ॥ लक्ष्यतेऽनया लक्ष्मीः स्त्रीलिङ्गा ॥ ८॥ छ्यति वैरूप्यं छाया " स्थाछामा-" ( उणा-३५५) ॥ इति यः ॥ ९ ॥ शोभनं शोभा भिदादिस्वादङि साधुस्तत्र ॥ १० ॥
सुषमा सातिशायिनी ॥ १४८॥ सा शोभाऽतिशयवती सुष्ठु समा सुषमा “निर्दु:सुवे:-" ॥२॥ ३ ॥ ५६ ॥ इति षत्वम् ॥ १॥ ॥ १४८ ॥
संस्तवः स्यात् परिचयः संगतं स्तवनं संस्तवः ॥ १॥ समन्ताच्चयनं परिचयः ॥ २ ॥
आकारस्त्विङ्ग इङ्गितम् । आकृतिराकारः ॥ १॥ इङ्गनमिङ्गः, घञ् ॥ २॥ क्त इङ्गितम्, इङ्गिताकाराभ्यां भावज्ञानमित्यादौ गोबलीवदन्यायेन इङ्गितं चेष्टितम्, आकारो मुखरागादिरिति कौटिल्यो व्याख्यत् ॥ ३ ॥
निमित्ते कारणं हेतुर्वीजं योनिर्निबन्धनम् ॥ १४९॥
निदानम् निमिनोति निमित्तं तत्र " पुतपित्त-" ॥ ( उणा-२०४ ) ॥ इति निपात्यते ॥ १॥ करोति कारणम्, “कारणम्" ॥ ५। ३ । १२७ ॥ इति साधुः ॥२॥ हिनोति वर्धते हेतुः पुंलिङ्गः ॥ ३॥ वेति वीजम् "वियो जक्" ॥ (उणा-१२७) ॥ ॥ ४ ॥ यौति योनिः पुंस्त्रीलिङ्गः ॥ ५॥ निबध्नाति निबन्धनम् ॥ ६ ॥॥ १४९ ॥ निदीयते जन्यतेऽनेन निदानम्, एते धर्मवृत्तित्वेऽप्यजहल्लिङ्गाः ॥ ७ ॥
अथ कार्य स्यादर्थः कृत्यं प्रयोजनम् । क्रियते कार्यम्, घ्यण ॥ १ ॥ अर्थ्यतेऽर्थः ॥ २ ॥ क्रियते कृत्यम्, “कृवृषि-" ॥५॥ १ ॥ ४२ ॥ इति वा क्यप् ॥ ३ ॥ प्रयोजयति प्रयोजनम् ॥ ४ ॥
निष्ठानिर्वहणे तुल्ये