SearchBrowseAboutContactDonate
Page Preview
Page 603
Loading...
Download File
Download File
Page Text
________________ ६ षष्ठः काण्डः। समौ निरोधनिग्रहौ ॥ १४४ ॥ निरोधनं निरोधः॥१॥ निग्रहणं निग्रहः ॥ २ ॥ १४४ ॥ विघ्नेऽन्तरायप्रत्यूहव्यवायाः विहन्यतेऽनेन विघ्नः स्थादित्वात् कः, तत्र ॥१॥ अन्तरा अयनं कार्यव्यव. धानमन्तराय: ॥ २ ॥ प्रतीपमूहनं प्रत्यूहः ॥ ३ ॥ व्यवधाय अयनं व्यवायः ॥ ४ ॥ समये क्षणः । वेलावाराववसरः प्रस्तावः प्रक्रमोऽन्तरम् ॥ १४५ ॥ समेति समयस्तत्र ॥ १॥ क्षणुते क्षणः ॥ २ ॥ वेलयति कालमुपदिशति चेला ॥ ३ ॥ वियते वारः पुंक्तीबलिङ्गः, बाहुलकाद् घञ् ॥ ४ ॥ अवसरत्यवसरः ॥५॥ प्रसङ्गेन स्तूयते प्रस्तावः “प्रात् स्तुद्रुस्तोः " ॥ ५।३।६७ ॥ इति घन ॥६॥ प्रक्रम्यते प्रक्रमः, "मोऽकमि-" ॥ ४ ॥ ३॥ ५५ ॥ इति घनि वृद्धेरभावः ॥ ७ ॥ अनित्यन्तरम्, अन्तरातीति वा, अन्तरमस्त्यत्रेति वा ॥ ८॥ १४५ ।। अभ्यादानमुपोद्धात आरम्भः प्रोपतः क्रमः। • आभिमुख्येनादानमभ्यादानम् ॥ १॥ उपोद्धननमुपोद्धातः, उद्घातोऽपि ॥२॥ आरम्भणमारम्भः॥ ३ ॥ प्रोपाभ्यां परः क्रमः प्रक्रमणं प्रक्रमः ॥ ४ ॥ उपक्रमणमुपक्रमः ॥ ५॥ प्रत्युत्क्रमः प्रयोगः स्यात् प्रत्युत्क्रमणं प्रत्युत्क्रमः॥१॥ कर्मारम्भे प्रयुक्तिः प्रयोगः, प्रकृष्टयुद्धार्थी प्रत्युत्क्रान्तिर्वा ॥२॥ आरोहणं त्वभिक्रमः ॥ १४६ ॥ आरुह्यते आरोहणम् ॥ १ ॥ अभिमुखं कमणमभिक्रमः ॥ २ ॥ १४६ ॥ आक्रमेऽधिक्रमक्रान्ती 'आक्रमणमाक्रमः, तत्र ॥ १॥ अधिक्रमणधिक्रमः ॥२॥क्रमणं क्रान्तिः ॥३॥ व्युत्क्रमस्तूक्रमोऽक्रमः । व्युत्क्रमणं व्युत्क्रमः ॥१॥ उत्क्रमणमुत्क्रमः ॥ २॥ न क्रमोऽक्रमः ॥ ३ ॥ विप्रलम्भो विप्रयोगो वियोगो विरहः समाः ॥ १४७ ॥ विप्रलम्भनं विप्रलम्भः ॥ १ ॥ विप्रयोजनं विप्रयोगः ॥ २ ॥ वियोजनं वियोगः ॥३॥'रहण त्यागे ' इत्यदन्तः, विरहणं विरहः ॥ ४ ॥ ॥ १४७ ॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy