SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ ६ षष्ठः काण्डः। हेतुशून्या निहतुका मास्या स्थितिः, विगतं लक्षणमालोचममत्रेति विलक्षणम्, अप्रतिपत्तिरित्यर्थः ॥ १॥ १३३ ॥ कार्मणं मूलकर्म संदिष्टं कमैंव काणं वृद्धपरंपरोपदेशात् "कर्मणः संदिष्टे" ॥४।२।१६७ ॥ इति स्वार्थिकोऽण् ॥ १ ॥ मूलैरोषधादिमिर्वशीकरणं मूलकर्म ॥ २ ॥ अथ संवननं वशक्रिया। समन्ताद् वन्यते सेव्यते वाऽनेन संवननम् ॥ १॥ क्शे करणं वशक्रिया वशीकरणमित्यर्थः ॥२॥ प्रतिबन्धे प्रतिष्टम्भः प्रतिबन्धन प्रतिबन्धस्तत्र ॥१॥ प्रतिष्टम्भनं प्रतिष्टम्भो रोधः "मप्रति स्तब्धनिस्तब्धे स्तम्भः" ॥ २॥ ३ । ४१ ॥ इति षत्वम् ॥ २ ॥ स्यादास्यास्थासना स्थितिः ॥ १३४ ॥ आसनमास्या "आस्यटिव्रज्यमः क्यप्" ॥ ५ । ३ । ९७ ॥१॥ आस्थानमास्था ॥ २ ॥ "णिवेत्त्यास-" ॥ ५। ३।१११॥ इत्यने आसना ॥ ३॥ स्थान स्थितिः ॥ ४ ॥ १३४ ॥ परस्परं स्यादन्योऽन्यमितरेतरमित्यपि । - परस्परादयत्रयोऽपि स्वभावादेकत्वपुंस्त्ववृत्तयः कर्मव्यतिहारविषयाः "परस्परान्योन्येतरेतरस्यामस्यादेर्वाऽसि ॥ ३॥ २॥ १ ॥ इति सूत्रनिर्देशात् परान्येतरशब्दानां सर्वनाम्नां द्विवचनादिनिपातनात साधवः ॥ १॥ २ ॥ ३ ॥ मिथोडव्ययेषु वक्ष्यते ॥ आवेशाटोपौ संरम्भे आवेशनमावेशः ॥ १॥ 'टुपः सौत्रः' आटोपनमाटोपः ॥ २ ॥ संस्म्भणं संरम्भस्तत्र ॥ ३ ॥ निवेशो रचना स्थितौ ॥ १३६ ॥ निवेशनं निवेशः॥१॥रच्यते रचना ॥२॥ तिष्ठन्त्यस्यां स्थितिः, तत्र ॥३॥१५॥ निर्बन्धोऽभिनिवेशः स्यात् ... निबन्धनं निर्बन्धः ॥ १ ॥ अभिनिवेशनमभिनिवेशः ॥ २ ॥ प्रवेशोऽन्तर्विगाहनम् ।
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy