SearchBrowseAboutContactDonate
Page Preview
Page 597
Loading...
Download File
Download File
Page Text
________________ ६ षष्ठः काण्डः । ख्याते प्रतीतप्रज्ञातवित्तप्रथितविश्रुताः । ख्यायते स्म ख्यातः, तत्र ॥१॥ प्रतीयते प्रतीतः ।। २।। प्रज्ञायते प्रज्ञातः ॥ ३ ॥ 'विलंती लाभे' विद्यते उपलभ्यते वित्तः “वित्तं धनप्रतीतम्" ॥ ४ । २ । ८२ ।। इति साधुः ॥ ४ ॥ प्रथ्यते प्रथित: ॥ ५ ॥ विश्रूयते विश्रुतः ॥ ६ ॥ तप्ते सन्तापितो दूनो धूपायितश्च धूपितः ॥ १२९ ॥ तप्यते तप्तः, तत्र ॥ १॥ 'बहुलमेतन्निदर्शनम्' इति चुरादित्वात् स्वार्थे णिचि सन्तापितः ॥ २ ॥ दूयते दूनः, “दुगोरू च" ।। ४ । २ । ७७ ।। इति तस्य नत्वमूत्वं च ॥ ३ ॥ धूपेः "अशवि ते वा" ॥ ३ ॥ ४॥ ४ ॥ इति स्वार्थे आयप्रलये धूपायितः ॥ ४ ॥ पक्षे धूपितः॥ ५॥ १२९ ॥ शीने स्त्यानम् . श्यायते स्म शीनम्, तत्र “श्यः शीवमूर्तिस्पर्शे नश्चास्पर्शे" ॥ ४ ॥ १९ ॥ इति साधुः ॥ १॥ स्त्यायति स्म स्त्यानम्, “व्यञ्जनान्तस्थातोऽख्याध्यः ॥ ४ ॥ २॥ ७१ ॥ इति कस्य नत्वम् ॥ २ ॥ उपनतस्तूपसन्न उपस्थितः । उपनमति स्म उपनतः ॥ १॥ उपसीदति स्म उपसन्नः ॥ २ ॥ उपतिष्ठते स्म उपस्थित: ॥ ३ ॥. . निर्वातस्तु गते वाते निर्वाति स्म निर्वातो वातः ॥ १॥ निर्वाणः पावकादिषु ॥ १३० ॥ निर्वाति शाम्यति स्म निर्वाणोऽग्निः, विध्यात इत्यर्थः “निर्वाणमवाते' ॥ ४ ॥ २॥ ७९ ॥ इति साधुः, आदिशब्दानिर्वाणो मुनिः, निर्वाणं मुक्तिः, निवृतिश्च । यथा-प्रियादर्शनमेवास्तु किमन्यैर्दर्शनान्तरैः ।। ___ निर्वाणमाप्यते येन सरागेणापि चेतसा ॥ १ ॥ १३० ॥ प्रवृद्धमेधितं प्रौढं . प्रवर्द्धते स्म प्रवृद्धम् ॥ १ ॥ एधते स्म एधितम् ॥ २ ॥ प्रवहति स्म प्रौढम्, *प्रस्यध्योढोड्यूहे.' ॥ १। २ । १४ ॥ इत्यौत्वम् ॥ ३ ॥ विस्मृतान्तर्गते समे। विस्मयते स्म विस्मृतम्, प्रस्मृतमपि ।।१॥ अन्तर्गच्छति स्म अन्तर्गतम् ॥२॥ उद्वान्तमुद्गते
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy