SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ ६ षष्ठः काण्डः। ५८९ कोऽयं 'झम्पः सम्पातपाटवम्' इति पुंस्यन्ये ॥ १॥ संपातने पाटवं संपातपाटवम् ॥ २ ॥ १०६ ॥ अनारतं त्वविरतं संसक्तं सततानिशे । नित्यानवरताजलासक्ताश्रान्तानि सन्ततम् ॥ १०७ ॥ आरत-विरता-ऽवरतशब्दा विरामार्थाः, ततो नसमासः-अनारतम् ॥१॥ अवि. रतम् ॥२॥ अनवरतम् ॥३॥ संसजति स्म संसक्तम् ॥४॥ संतन्यते सततम्, “समस्ततहिते वा." ॥ ३ । २ । १३९ ॥ इति सभावः ॥ ५॥ नास्ति निशाऽत्र अनिशम्, सा हि विरतिस्थानम् , अनिशमित्यव्ययमपि ॥६॥ नियतं भवं नित्यम्, “ने,वे" ॥६॥३॥१७॥ इति त्यच् ॥ ७॥ न जस्यतीत्येवं शीलमजस्रम् , “स्म्य जस-" ॥५॥२॥ ७९ ॥ इति रः ॥ ८ ॥ न सजति स्म असक्तम् ॥ ९॥ न श्राम्यति स्म अश्रान्तम् ॥ १० ॥ संतन्यते सन्ततम् ॥ ११॥ १७ ॥ साधारणं तु सामान्य समानमाधारणमस्य साधारणम् ॥ १॥ समानस्य भावः सामान्यम् ॥ २ ॥ दृढसन्धिस्तु संहतम् ।। दृढः सन्धिरस्य दृढसन्धिः ॥ १ ॥ संहन्यते संहतम् ॥ २ ॥ कलिलं गहने : कल्यते क्षिप्यतेऽत्रान्यत् कलिलम्, “कल्यनि-" ॥ ( उणा-४८१ ) ॥ इतील: ॥१॥ गाह्यते व्याप्तत्वाद् गहनम्, "विदन-" ॥ (उणा-२७५) । इत्यने निपात्यते, तत्र ॥२॥ सङ्कीर्णे तु सङ्कुलमाकुलम् ॥ १०८ ॥ कीर्णमाकीर्ण च - संकीर्यते संकीर्ण तत्र ॥१॥ संकोलति निरन्तरीभवति संकुलम् ॥२॥ . आकोलत्याकुलम् ॥ ३॥ १०८ ॥ कार्यते कीर्णम् ॥ ४ ॥ आकीर्यते आकीर्णम्, एते पूर्वाभ्यामेकार्थाः इत्येके ॥ ५ ॥ पूर्णे त्वाचितं छन्नपूरिते। भरितं निचितं व्याप्तं पूर्यते स्म पूर्ण तत्र “णौ दान्तशान्त." ॥ ४ ॥ ४ ॥ ७४ ॥ इति साधुः ॥ १ ॥ आचीयते स्म आचितम् ॥२॥ छाद्यते स्म छन्नम, गणो दान्तशान्त." ।। ४।४।७४ ।।
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy