SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ ५८८ अभिधानचिन्तामणौ-.. स्थपुटं विषमोन्नतम् । तिष्ठति स्थपुटम्, “ नर्कुट-" ॥ ( उणा-१५५ ) ॥ इत्युटे निपात्यते ॥ १॥ . विषमं च तदुन्नतं च विषमोन्नतम् ॥ २ ॥ - अन्यदन्यतरद् भिन्नं त्वमेकमितरच तत् ॥ १०४ ॥ __ अनित्यन्यत् “ स्थाछामा-" ॥ ( उणा-३५७ ) ॥ इति यः॥१॥ बहूनां मध्येऽन्यदन्यतरद् * बहूनां प्रश्ने डतमश्च वा " ॥ ७॥ ३ । ५४ ॥ इति डतरः ॥२॥ भिद्यते भिन्नम् ॥३॥ त्वक्षति त्वम्, "क्वचित्" ॥ ५।१।१७१ ॥ इलि' डः॥४॥ एत्येकम् , यथा-इत्येके मन्यन्ते। यत् कात्य:-'प्रधानान्यासहायेषु सङ्ख्यायां चैक इष्यते' ॥ ५॥ एतीतरत् “ इण्पूभ्यां कित् " ॥ ( उणा-४३८ ) ॥ इति तरः॥ ६ ॥ एते भिन्नादन्ये सर्वनामानि ॥ १०४ ॥ करम्बः कबरो मिश्रः संपृक्तः खचितः समाः । क्रियते करम्बः, “ कृकडि-" ॥ ( उणा-३२१ ) ॥ इत्यम्बः ॥ १॥ कूयते कबरः "ऋच्छिचटि-" ॥ ( उणा-३९७ ) ॥ इत्यरः ॥ २॥ मिश्रयते मिश्रः । ॥ ३ ॥ संपृच्यते संपृक्तः ॥ ४ ॥ खच्यते खचितः ॥ ५ ॥ विविधस्तु बहुविधो नानारूपः पृथग्विधः ॥ १०५ ॥ विचित्रो विधः प्रकारोऽस्य विविधः ॥ १ ॥ बहु, पृथग् विधोऽस्य बहुविधः, पृथविधः ॥ २॥ ३ ॥ नाना रूपमस्य नानारूप:, बहुरूप-पृथग्रूप-नानाविधा अपि ॥ ४ ॥ १०५ ॥ त्वरितं सत्वरं तूर्णं शीघ्रं क्षिप्रं द्रुतं लघु । चपलाविलम्बिते च त्वरते स्म त्वरितम् ॥ १॥ सह त्वरया वर्तते सत्वरम् ॥ २॥ त्वरते तूर्ण "श्वसजप-" ॥ ४ । ४ । ७५ ॥ इति विकल्पेटत्वादिडभावः, "मव्यविधिवि-" ॥ ४ । १ । १०९ ॥ इत्युपान्त्येन ऊट , “रदादमूर्च्छ-" ।। ४ । २ । ६९ ॥ इति कस्य नत्वम् ।।३॥ श्यायते शीघ्रम्, "खुरक्षुर-" ॥ (उणा-३९६)।। इति रे निपात्यते ॥४॥ क्षिपति क्षिप्रम्, "ऋज्यजि-" ॥ ( उणा-३८८) ॥ इति किद् रः ॥ ५ ॥ द्रवति द्रुतम् ॥ ६॥ लवते लघु ॥ ७ ॥ चपति चपलम् ॥ ८ ॥ न विलम्बितमविलम्बितम् ॥ ९॥ अरमाशुमङ्क्षवोऽव्ययेषु वक्ष्यन्ते । झम्पा सम्पातपाटवम् ॥ १०६ ॥ झमति झम्पा “पम्पाशिल्पा-" || ( उणा-३०० ) ॥ इति निपात्यते स्त्रीलि
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy