________________
६ षष्ठः काण्डः |
५८७
“ द्व्यन्तरनवर्ण-””॥ ३ । २ । १०९ ॥ इति अप ईपादेशः ॥ ७ ॥ प्रतीपं लोमाSत्र प्रतिलोमम्, " प्रत्यन्ववात् सामलोन: " ॥ ७ । ३ । ८२ ॥ इत्यत् समासान्तः ॥ ( उणा - ७३२ ) ॥ ॥ ८ ॥ अपावृत्य तिष्ठतीत्यपष्ठु “ दुःखपवनिभ्यः स्थः
"
इति किदुः, भीरुष्ठानादित्वात् षत्वम् ॥ ९ ॥ १०१ ॥
वामं शरीरेऽङ्गं सव्यम्
वम्यते वामम् ॥ १ ॥ सूयते सव्यम् ॥ २ ॥
अपसव्यं तु दक्षिणम् ।
शरीरेऽङ्गमित्येव, अपक्रान्तं सव्यादपसव्यम् ॥ १॥ दक्षते दक्षिणम्, "दुहृवृद्दि - " ( उणा - १९४ ) ॥ इतीणः ॥ २ ॥
अबाधोच्छ्रङ्खलोद्दामान्ययन्त्रितमनर्गलम् ॥ १०२ ॥
निरङ्कुशे
नास्ति बाधाऽस्य अबांधम् ॥ १ ॥ उत्क्रान्तं शृङ्खलादुच्छृङ्खलम् ॥ २ ॥ उत्क्रान्तं दामाया उद्दामम्, अत्र दामाशब्दः स्त्रियां डाबन्तः ॥ ३॥ न यन्त्रितमयन्त्रितम् ॥४॥ नास्त्यर्गलास्थ अनर्गलम्, निरर्गलमपि ॥ ५ ॥ ॥ १०२ ॥ निष्क्रान्तमङ्कुशान्निरङ्कुशम्, तत्र ॥ ६ ॥
स्फुटे स्पष्टं प्रकाशं प्रकटोल्बणे ।
व्यक्तं
स्फुटति बहिः प्रकाशते स्फुटम् तत्र ॥ १ ॥ स्पश्यते स्म स्पष्टम्, " णौ दान्तशान्तपूर्णदस्त स्पष्ट -” ॥ ४ । ४ । ७४ ॥ इति साधुः ॥ २ प्रकाशते प्रकाशम् ॥ ३ ॥ प्रकाशं प्रकटं " संप्रोन्नेः - " ॥ ७ । १ । १२५ ॥ इति कटः ॥ ४ ॥ बलत्युल्बणं “चिक्कण-” ( उणा–१९० ) ॥ इत्यणे निपात्यते, उद्वणतीति वा पृषोदरादित्वात् ॥ ५ ॥ व्यज्यते व्यक्तम् ॥ ६ ॥
वर्तुलं तु वृत्तं निस्तलं परिमण्डलम् ॥ १०३ ॥
वर्तते भ्रमति वर्तुलम्, “ हृषिवृति - " ॥ ( उणा - ४८५ ) ॥ इत्युलः ॥ १ ॥ - वर्तते वृत्तं पुंक्लीबलिङ्गः, वाच्यलिङ्गोऽयमित्यन्ये ॥ २ ॥ निर्गतं तलं प्रतिष्ठाऽस्य निस्तलम्, भूमौ नास्ते, तत्र वा रजो न तिष्ठति ॥ ३ ॥ परितो मण्डलाकृति परिमण्डलम् || ४ || ॥ १०३ ॥
बन्धुरं तून्नतानतं
बध्नाति गतिं बन्धुरम् ॥ १॥ उन्नतं च तदुपाधिवशादीषन्नतं उन्नतानतम्, यथा'कण्ठस्य तस्याः स्तनबन्धुरस्य' इति ॥ २ ॥