________________
५८६ . अभिधानचिन्तामणौ
कक्षोपमानम् उपमैव औपम्यम्, भेषजादित्वात् ट्यण् ॥ १॥ अनुकरणमनुकारः ॥२॥ अनु. हरणमनुहारः ॥ ३ ॥ समस्य भावः साम्यम् ॥ ४ ॥ तोलनं तुला भिदादित्वात् ॥ ५ ॥ उपमानमुपमा ॥ ६ ॥ कक्षणं कक्षा ।। ७ ।। उपमितिरुपमानम् ॥ ८ ॥
अर्चा तु प्रतेर्मा यातना निधिः ॥ ९९॥ .. छाया छन्दः कायो रूपं बिम्बं मानकृती अपि। - अर्यते अर्चा ॥१॥ प्रतिशब्दात् परे मा-प्रभृतयः कृतिपर्यन्ता दश, प्रतिमीयते ऽनया प्रतिमा ॥ २ ॥ प्रतियात्यते उपस्क्रियते प्रतियातना ॥ ३ ॥ प्रतिनिधीयते प्रतिनिधिमुख्यसदृशोऽर्थः ॥ ४ ॥ ९९ ॥ प्रतिरूपा छाया प्रतिच्छाया ॥ ५ ॥ प्रतिछन्द्यते प्रतिछन्दः, प्रतिरूपं छन्द इति वा ॥ ६ ॥ प्रतिरूपः कायः प्रतिकायः ॥७॥ रूपेण सदृशं प्रतिरूपम्, प्रतिरूप्यते वा ॥८॥ प्रतिबिम्ब्यते प्रतिबिम्बम् , बिम्बेन सदृशं वा ॥ ९ ॥ प्रतिमीयतेऽनेन प्रतिमानम् ॥ १० ॥ प्रतिरूपा क्रियते प्रतिकृतिः ॥ ११ ॥
सूर्मा स्थूणाऽयःप्रतिमा सरति सूमिः, “ सर्तेरुच्चातः " ॥ ( उणा-६८९ ) ॥ इति मिः, ड्या सूमी शोभना ऊर्मिरस्या इति वा ॥ १ ॥ तिष्ठति स्थूणा “ स्थार्धातोरूच " ॥ ( उणा१८५ ) ॥ इति णः ॥ २ ॥ अयोमयी प्रतिमाऽयःप्रतिमा ॥ ३॥
हरिणी स्याधिरण्मयी ॥ १०० ॥ .. हरति मनो हरिणी "दुहृवृहि-" ॥ (उणा-१९४) ॥ इतीणः ॥१॥ हिरण्यस्य विकारो हिरण्मयी, " सारवैश्वाकमैत्रेय-" ॥ ७ ॥ ४ ॥ ३० ॥ इति मयटि यलोपः ॥ २ ॥ ॥ १० ॥
प्रतिकूलं तु विलोममपसव्यमपष्ठुरम् ।
वामं प्रसव्यं प्रतीपं प्रतिलोममपष्टु च ॥ १०१॥ प्रतीपं कूलात् प्रतिकूलम्, लक्षणया विरुद्धार्थम् ॥ १ ॥ लोमानि विपर्यस्यति "णिज् बहुलं-" ॥ ३ । ४ । ४२ ॥ इति णिचि, लोमयतीति विलोमम् ॥ २॥ अपगतं सव्यादपसव्यं वाममित्यर्थः, सव्यशब्दो हि दूरान्तिकार्थाऽऽराच्छन्दवत् वामदक्षिणार्थः ॥ ३ ॥ अपावृत्य तिष्ठति अपष्ठुरम् "श्वशुर-'' ॥ ( उणा-४२६) ॥ इत्युरे निपात्यते, अपष्ठुवं राति वा ॥४॥ वाति वामम् ॥५॥ प्रगतं सव्यात् प्रसव्यम् ॥ ६ ॥ प्रत्यावृत्ता आपोऽत्र प्रतीपम् “ ऋक्तःपथ्यपोऽतू " ॥४।३ । ७६ ॥