________________
अभिधानचिन्तामणौ
एकाक्येक एककः ॥ ९३॥ एत्येकः ॥ १॥ एक एव एकाकी, एककः असहाय इत्यर्थः “एकादाकिन् चासहाये" ॥ ७॥ ३ ॥ २७ ॥ इति साधुः, अवगणोऽपि ॥ २ ॥ ३ ॥ ९३ ॥
एकात् तानायनसर्गाग्राण्यैकाग्रं च तद्गतम् ।
अनन्यवृत्त्येकायनगतं च एकशब्दात् परे तानादयः, एकमविच्छिन्नं तननं विस्तारोऽस्य एकतानम् ॥१॥ एकमयनं गतिरस्य एकायनम् ॥ २ ॥ एकः सर्गो निश्चयोऽस्य एकसर्गम् ॥३॥ एक-.. मप्र पुरोगतमस्त्यस्य एकाग्रम् ॥ ४ ॥ एकाप्रमेवैकाग्रं प्रज्ञादित्वादण् ॥ ५ ॥ तत्र गच्छति तद्गतम् ॥ ६ ॥ अनन्या एकरूपा वृत्तिापारोऽस्य अनन्यवृत्तिः ॥ ७ ॥ एकमयनं गतमेकायनगतम् ॥ ८ ॥
अथाद्यमादिमम् ॥ ९४ ॥
पौरस्त्यं प्रथमं पूर्वमादिरग्रम् आदौ भवमाद्यम्, आदिर्धर्ममात्रेऽत्र, दिगादित्वाद् यः ॥ १॥ आदौ जातमादिमम् “पश्चादाद्यन्ताप्रादिमः ॥ ६।३ । ७५ ॥ २ ॥ ९४ ॥ पुरो भवं पौरस्त्यम्, "द क्षणापश्चात् पुरसस्त्यण्" ॥ ६ ॥ ३ ॥ १३ ॥ ३॥ प्रथते प्रथमम्, "स्पूप्रथि-" ॥ ( उणा-३४७ ) ॥ इति मः ॥ ४ ॥ पूर्वम् ॥ ५ ॥ आदीयते प्रथमतयेत्यादिः पुंलिङ्गः, धर्मिवृत्तित्वेऽपि अजहल्लिङ्गः, यथा-आदिगंर्गकुलम्॥६॥अगत्यप्रम्,प्रागपि॥७॥
अथान्तिमम् ।
जघन्यमन्त्यं चरममन्तः पाश्चात्यपश्चिमे ॥ ९५ ॥ अन्ते जातमन्तिमम् “पश्चादाद्यन्त-" ॥ ६ । ३ । ७५ ॥ इतीमः ॥१॥ जघनेऽधस्ताद् भवं जघन्यं दिगादित्वाद् यः ॥ २ ॥ अन्ते भवमन्त्यम् ॥ ३ ॥ चरति चरमम्, “स्पूप्रथिः ॥ ( उणा-३४७) ॥ इति मः ॥ ४ ॥ अमत्यन्तः, “दम्यमि-"॥(उणा-२.०) ॥ इति तः, धमिवृत्तित्वेऽप्ययमस्त्रीलिङ्गः, यथा 'कुलस्यान्तः प्रभुस्त्रियः ॥५॥ पश्चाद् भवं पाश्चात्यम्, “दक्षिणापश्चात्-" ॥ ६।३।१३ ॥ इति त्यण ॥ ६ ॥ “पश्चादाद्यन्त-"।६।३ । ७५ ॥ इति इमे पश्चिमम्, “प्रायोऽव्ययस्य" ॥ ७॥४॥६५॥ इत्यन्यस्वरादिलोपः ॥ ७ ॥ १५ ॥
मध्यमं माध्यमं मध्यमीयं माध्यंदिनं च तत् । मध्ये जातं मध्यम "मध्यान्मः" ॥ ६।३।७६ ॥ १॥ मध्ये भवं माध्यमम्, मध्यमीयम्, माध्यदिनम् “मध्याद्दिनण्णेया मोऽन्तश्च" ॥६।३ । १२६ ॥ इति साधवः, मध्यंदिनमित्यन्ये ॥२॥ ३ ॥ ४ ॥