SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणी ૧૮૨ अथ सनातनम् ॥ ८॥ शाश्वतानश्वरे नित्यं ध्रुवं - सना सर्वदा भवति सनातनम्, “सायंचिरं-" ।६।३। ८८॥ इति तनट, सदातनमपि ॥ १ ॥ ८८ ॥ शश्वद् भवं शाश्वतम्, “भर्तुसन्ध्यादेरण' ।। ६ । ३ । ८९ ॥ शाश्वलिकमपि ।।२।। म नश्वरमनश्वरम् ||३|| नियतं भवं नित्यम्, “ने वे" ॥६॥ ३॥ १७ ॥ इति त्यच ॥ ४ ॥ ध्रुवति ध्रुवम्, कुटादिलादाच गुणाभावः ।। ५॥ . स्थेयस्त्वतिस्थिरम् । स्थास्नु स्थेष्ठं अतिशयेन स्थिरं स्थेयः, स्थेष्ठम् “प्रियस्थिर-" ॥ ७ ॥ ४ ॥ ३८॥ इति स्थादेशः ॥1॥२॥ ३ ॥ तिष्ठतीलेवं शीलं स्थास्नु "स्थाग्लाम्ला-" ॥ ५॥ २॥३१॥ इति स्नुः ॥ ४ ॥ तत् कूटस्थं कालव्याप्येकरूपतः ॥ ८९ ॥ तद् अतिस्थिरम्; कूटेन अचलत्वेन तिष्ठति कूटस्थमाकाशात्मादि निरवधिकालं व्याप्नोति स्थिरत्वात् कालव्यापि, एकरूपतो निर्विकारतयेत्यर्थः ॥ १॥ ८९ ॥ स्थावरं तु जङ्गमान्यत् तिष्ठतीत्येवं शीलं स्थावरं पृथिव्यादि, “स्थेशभास-" ॥ ५॥२।८१ ॥ इति वरः, जङ्गमात् त्रस्य वीन्द्रियादेः, अन्यजङ्गमान्यत् ॥ १॥ जङ्गमं तु वसं चरम् । चराचरं जगदिङ्गं चरिष्णु च भृशं गच्छति जङ्गमं अकौटिल्येऽप्यभिधानाद् यङ् ॥ १॥ त्रस्यति चलत्वात् त्रसम् ॥ २॥ चरति चरम् ॥ ३ ॥ "चराचरचलाचल-" ॥४१११३॥ इत्यचि द्वित्वा-ऽऽत्वनिपातनाचराचरम् ॥४॥ गमनशीलं जगत् “दिद्युद्ददृज्जगत-" ॥ ५।२। ८३ ॥ इति विपि साधुः ॥५॥ इङ्गति इङ्गम् ॥६॥ चरणशीलं चरिष्णु "भ्राज्यलं-" ॥५। २ । २८ ।। इतीष्णु ॥ ७ ॥ अथ चञ्चलम् ॥ ९०॥ तरलं कम्पनं कम्प्रं परिप्लवचलाचले । चटुलं चपलं लोलं चलं पारिप्लवास्थिरे ॥ ९१ ॥ चञ्चति चञ्चलम्, “मृदिकन्दि-" ॥ ( उणा-४६५) ॥ इत्यलः, चंचल्यते वा
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy