SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणौत्यते ॥ १ ॥ तन्यते तनु ।। २ ॥ पेलति पेलवं "वडिवटि-"। ( उणा-५१५) । इत्यवः ॥ ३ ॥ ८३ ॥ नवं नवीनं सद्यस्कं प्रत्यग्रं नूननूतने । नव्यं चामिनवे नूयते नवम् ||१॥ नवमेव नवीनम्, नूत्नम, नूतनम, नव्यं "नवादीनतननं च नू चाऽस्य" ॥ ७१२।१६० ॥ इति साधवः ॥ २॥३॥ ४ ॥५॥ सद्यो भवं. सद्यस्कम्, पृषोदरादित्वात् साधुः ॥ ६ ॥ प्रतिगतमग्रमनेन प्रत्ययम् ॥ ७ ॥ अभिनूयतेऽभिनवं तत्र ॥ ८॥ जीर्णे पुरातनं चिरन्तनम् ॥ ८४ ।। पुराणं प्रतनं प्रत्नं जरत् जीर्यति स्म जीर्ण तत्र ॥१॥ पुरा भवं पुरातनम् "सायंचिरंपाहणेप्रगेऽव्ययात्" ॥६।३। ८८ ॥ इति तनट् ॥ २ ॥ सूत्रनिपातनान्मोऽन्तश्च ॥ ३ ॥ ८४ ।। पुरा भवं पुराणम् "पुरो नः" ।। ६ । ३ । ८६ ।। इति न, पुरापि न नवमिति वा ।। ४ ।। प्रगतं कालेन प्रतनं प्रत्नम् "प्रात् पुराणेनश्च" ॥ ७ । २ । १६१ ॥ इति तनलप्रत्ययौ ।। ५ ।। ६ ।। जीयति स्म जरत् "जृषोऽनुः" ॥ ५। १ । १५३ ॥ ७ ॥ ___ मूर्त तु मूर्तिमत् । मूर्च्छति स्म मूर्तम् ॥ १ ॥ मूर्तिरस्य मूर्तिमत् ॥ २ ॥ उच्चावचं नैकभेदम् उदक् च अवाक च, उचितं चाऽवचितं च वा, उन्नतं चाऽवनतं च षा उच्चावचम, मयूरव्यंसकादित्वात् साधुः ॥ १ ॥ न एको नैकः निरनुबन्धोऽत्र नः "नाम नाम्नैकार्थे " ।। ३। १ । १८ ॥ इति समासः, नैको भेदोऽस्य नैकभेदं नानाप्रकारमित्यर्थः ।। २ ॥ ___ अतिरिक्ताधिके समे ॥ ८५ ॥ अतिरिच्यते स्म अतिरिक्तम् ॥१।। अध्यारूढमधिकम् "अधेरारूढे" || ।। १८७ ।। इति कः, अधि कायतीति वा ॥ २ ॥ ८५ ।। पार्श्व समीपं सविधं ससीमाभ्याशं सवेशान्तिकसन्निकर्षाः। सदेशमभ्यग्रसनीडसन्निधनान्युपान्तं निकटोपकण्ठे ।। ८६ ॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy