SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणौ जनानां समूहो जनता एवमन्येऽपि " प्रामजनबन्धुराजसहायात् तल" ॥ ६ ॥ २ । २८ ॥ १ ॥ रथानां तु स्याद् रथ्या स्थकव्यया ॥ ५८ ॥ रथानां समूहो रथ्या " पाशादेश्व - " ।। ६ । २ । २५ ॥ इति ल्यः ॥ १ ॥. “ गोरथ -” ॥ ६ । २ । २४ ॥ इति कट्याल रथकट्या, वात्यादय: 'लिन्मिन्यनियस्त्रियुक्ताः' इति लानुबन्धप्रत्ययान्तत्वात् स्त्रियां वर्तन्ते ॥ २ ॥ ५८ ॥ राजिर्लेखा ततिर्वीथीमालाल्यावलिपङ्क्तयः । धोरणी श्रेणी ५७० राजते राजिः स्त्रीलिङ्गः " पदिपटि - " ॥ ( उणा६०७ ) ॥ इति इः ॥ १ ॥ लिख्यतेऽनया लेखा, भिदादित्वात् साधुः ॥ २ ॥ तन्यते ततिः ॥ ३ वीयते वीथि: “वीसञ्ज्यसि” ॥ ( उणा - ६६९ ) ॥ इति थिक्, ङयां वीथी ॥ ४ ॥ मीयते माला "शामाश्या - " ॥ ( उणा - ४६२ ) ॥ इति लः, मल्यते वा ॥ ५॥ अलत्यालि: “कृशृकुटि -” ॥ ( उणा - ६१९ ) ॥ इति णिदिः ॥ ६ ॥ आवलति आवलि: “पदिपठि–” ॥ ( उणा-६०७ ) ॥ इति इ:, स्त्रीलिङ्गौ ॥ ७ ॥ पञ्च्यते पङ्क्तिः ॥ ८ ॥ धोरन्त्यस्थां धोरणी ॥ ९ ॥ श्रीयते श्रेणिः पुंस्त्रीलिङ्गः, ड्यां श्रेणी ॥ १० ॥ उभौ द्वौ तु उभतः पूरयतो द्वित्वमुभौ ॥ १ ॥ युगलं द्वितयं द्वयम् ॥ ५९ ॥ युगं द्वैतं यमं द्वन्द्वं युग्मं यमलयामले । युज्यते युगलम् "मुरल - " ॥ ( उणा - ४७४) ॥ इत्यले निपात्यते, धर्मवृत्तौ युगं लातीति वा ॥ १ ॥ द्वाववयवावस्य द्वितयम् "अवयवात्तयट्” ॥७|१|१५१॥ .. ॥ २ ॥ “ द्वित्रिभ्याम् - " ॥ ७ । १ । १५२ ॥ इत्ययटि द्वयम् एते त्रयः स्त्रीक्लीबलिङ्गाः ॥ ३ ॥ ॥ ५९ ॥ युज्यतेऽनेन युगं वर्षादित्वादलि न्यक्कादित्वाद् गत्वम् ||४|| द्वयोर्भाव द्विता द्वितैव द्वैतं प्रज्ञादित्वादण् ॥ ५ ॥ यच्छति यमम् ॥ ६ ॥ वन्द्यते द्वन्द्वम् “ प्रवाहूवा-” ॥ ( उणा - ५१४ ) ॥ इति वे निपात्यते ॥ ७ ॥ युज्यते युग्मम् “ तिजियुजेर्ग् च ॥ ( उणा-३४५ ) ॥ इति किद् मः ॥ ८ ॥ यच्छति 29 यमं लाति वा ॥ ९ ॥ यम यमलम् “मृदिकन्दि-” || ( उणा - ४६५ ) ॥ इत्यल:, लमेव यामलम् प्रज्ञादित्वादण्, जकुटमपि ॥ १० ॥ पशुभ्यो गोयुगं युग्मे परम् पशुनामभ्यः परं युग्मे द्वित्वे वाच्ये गोयुगं प्रयुज्यते, यथा- गवोरश्वयोश्च द्वित्वं
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy