SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ २ देवकाण्डः । ५७ . तुल्यनक्तंदिने काले विषुवद् विषुवं च तत् ॥ ६०॥ तुल्ये नक्तंदिने यत्र काले तत्र विषुवत् विषुवं च, विषुर्नाम मुहूर्तः सोऽस्यास्ति विषुवत् , पुंक्लीबलिङ्गः; यद्वैजयन्ती-पुरी तन्महिमा हेम विषुवत् कर्म लोम दोः नृषण्ढलिङ्गाः । विषु साम्येऽव्ययम् तदस्यास्तीति वा ॥ १॥ एवं मण्यादित्वाद् वे विषुवम् । तच्च मेषादौ तुलादौ च भवति ॥ २ ॥ ६० ॥ पञ्चदशाऽहोरात्रः स्यात् पक्षः पञ्चदशाऽहोरात्रा अत्र पञ्चदशाहोरात्रः, पचति भूतानि पक्षः “मावावद्यभि-"॥ ( उणा-५६४ ) ॥ इत्यादिना सः ॥ १ ॥ स बहुलोऽसितः । स पक्षोऽसितः कृष्णः, बहते वर्द्धते तमोऽस्मिन्नित बहुलः ॥ १ ॥ शेषश्चात्रपक्षः कृष्णः सितो द्वेधा कृष्णो निशाह्वयोऽपरः । शुक्लो दिवाह्वयः पूर्वः ॥ तिथिः पुनः कर्मवाटी तन्यते तिथिः पुंस्त्रीलिङ्गः “ तनेर्डिद् ” ॥ ( उणा-६७४ ) ॥ इति इथिः ॥ १॥ कर्मणां वाटीव कर्मवाटी तत्प्रतिबद्धत्वात् तेषाम् ॥ २ ॥ प्रतिपत् पक्षतिः समे ॥ ६१ ॥ प्रतिपद्यते पक्षस्याऽऽद्यतया प्रतिपत् ॥ १॥ पक्षस्य मूलं प्रारम्भः पक्षतिः, स्त्रीलिङ्गो, “पक्षात्तिः " ॥ ७ । १ । ८९ ॥ इति तिः ॥ २ ॥ ६१ ॥ पञ्चदश्यौ यज्ञकालौ पक्षान्तौ पर्वणी अपि । पञ्चदशानां पूरण्यौ पञ्चदश्यौ ॥ १ ॥ यज्ञस्य कालौ यज्ञकालौ “दर्शपौर्णमासीभ्यां मिष्टान्नेन यजेत" इति श्रुतेः ॥ २॥ पक्षस्यान्तौ पक्षान्तौ ॥ ३ ॥ पूर्यन्ते पितरोऽत्र पर्वणी “ स्नामदि-" ॥ ( उगा-९०४ ) ॥ इत्यादिना वन् ॥ ४ ॥ - तत्पर्वमूलं भूतेष्टापञ्चदश्योर्यदन्तरम् ॥ ६२ ॥ पर्वणो मूलं पर्वमूलं, भूतेष्टा चतुर्दशी सा च पञ्चदशी च भूतेष्टापञ्चदश्यौ तयोरन्तरं मध्यम् ॥ १ ॥ ६२ ॥ ___ स पर्व सन्धिः प्रतिपत्पञ्चदश्योर्यदन्तरम् । स सन्धिः पर्वेति संबन्धः, यद दुर्गः-प्रतिपत्पञ्चदश्योस्तु सन्धिः पर्व । प्राच्यास्तु पर्वसन्ध्याख्यमाख्यन् ॥ १ ॥ -
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy