________________
अभिधानचिन्तामणौप्रदोषो यामिनीमुखम् ॥१८॥ प्रारब्धा दोषा अस्मिन् इति प्रदोषः। यामिन्या मुखं प्रारम्भो यामिनीमुखम् ॥ ५८ ॥ शेषश्चात्र
दिनात्यय: प्रदोषे स्यात् ॥
- यामः प्रहरः ।
याति यामः । “अरि-" ॥ ( उणा-३३८)॥ इत्यादिना मः ॥ १॥ प्रहियतेऽस्मिन् कालसूचकं वाद्यं प्रहरः "पुन्नाम्नि घः" ॥५३।१३०॥२॥
निशीथस्त्वर्धरात्रो महानिशा । नियतं शेरतेऽस्मिन्निशीथः । “न्युद्यां शीङः" ॥ (उणा-२२८) ॥ इति थः कित् । अत एव कात्यो निशीथं सुप्तजनमाह ॥ १॥ अर्द्ध रात्ररर्द्धरात्रः ॥२॥ महती प्राप्तप्रकर्षत्वात् , सा चासौ निशा च महानिशा ॥ ३ ॥ निःसम्पातोऽपि ।।..
उच्चन्द्रस्त्वपररात्रः उत्क्रान्तश्चन्द्रो ऽस्मिन् उच्चन्द्रः ॥ १॥ रात्रेरपरो भागः अपररात्रः ॥ २ ॥
तमिस्र तिमिरं तमः ॥ ५९॥ ____ध्वान्तं भूच्छायान्धकारं तमसं समवान्धतः ।
तमोऽस्याऽस्ति तमिस्रम् , स्त्रीक्लीबलिङ्गः । “तमिस्रार्णवज्योत्स्नाः" ॥ ७।२।५२ ॥ इति साधुः ॥ १॥ तिम्यतीव तिमिरं, पुंक्लीबलिङ्गः । “शुषी-" ॥ ( उणा-४१६ ) ॥ इत्यादिना इरः कित् ॥ २॥ ताम्यन्त्यनेन तमः। “अस्' ॥ (उणा-९५२)॥ इत्यस्।।३।।५९।। ध्वन्यते सर्वरोगहरतया तदिति ध्वान्तम्, पुंक्लीबलिङ्गः। "क्षुब्धविरिब्ध-" ॥ ४।२।७० ॥ इत्यादिना तान्तो निपात्यते ॥ ४ ॥ भुवश्छाया भूच्छाया; पुराणे भूगुणश्रुतेः । “ सेनाशाला-" ॥ (लिङ्गा-६२) इत्यादिना क्लीबत्वे भूच्छायं च ।।५|| अन्धं करोत्यन्धकारम् , पुंक्लीबलिङ्गः।। ६ ।। समवान्धतः समवान्धेभ्यः परं तमसम्, सततं तमः सन्तमसम्॥७॥ अवगतं अवहीनं वा तम: अवतमसम्॥॥ अन्धयत्यन्ध तच्च तत्तमश्च अन्धतमसम् । “समवान्धात्तमसः" ।। ७ । ३ । ८० ॥ इत्यत् ॥९॥ बाहुलकाद्दीर्घत्वे अन्धातमसमित्यपि । अमरस्तु-ध्वान्ते गाढेऽन्धतमसं, क्षीणेऽवतमसं तमः । विष्वक् संतमसमिति विशेषमाह । शेषश्चात्र
ध्वान्ते वृत्रो रजोबलम् ॥ रात्रिरागो नीलपङ्को दिनाण्डं दिनकेसरः । खपरागो निशावर्म वियद्भूतिदिगम्बरः॥ १ ॥