SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ २ देवकाण्डः । पाका अस्यो, गौरादित्वात् त्यो तमी ॥१०॥ तमेति त्वमरटीकाभिप्रायेण ॥११॥ विभातीति वनि ढयां विभावरी ॥१२॥ रजन्त्यस्यामिति रजनिः । “रजेः कित्" ॥ (उणा-६८१)॥ इत्यनिः । ड्यां रजनी ॥ १३ ॥ वसन्त्यस्यां वसतिः, खल्यमि." ॥ ( उणा-६५३) ॥ इत्यादिना अतिः ॥ १४ ॥ श्यायते गच्छति श्यामा, "विलिभिलि-" ॥ ( उणा-३४० ) ॥ इत्यादिना मः, श्यामत्वाद्वा श्यामा ॥१५॥ वसतौ साधुर्वासतेयी । “पथ्यतिथिवसतिखपतेरेयण्” ॥ ७१।१६ ॥ इत्येयणि डीः ॥१६॥ तमोऽस्त्यस्यां तमस्विनी ॥१७॥५६॥ ओषति दहत्यहाक्लेशमुषा । अव्ययमपि ॥१८॥ दुष्यत्यस्यां दृष्टि>षा, अव्ययमपि ॥१९॥ इन्दोः कान्ता इन्दुकान्ता ।।२०॥ शेषश्चात्र- . निशि चक्रभेदिनी निषदरी निशीथ्या निड् घोरा वासरकन्यका। शताक्षी राक्षसी याम्या घृतार्चिस्तामसी तमिः। शार्वरी क्षणिनी नक्तं पैशाची वासुरा उशाः ॥ १ ॥ नक्तमव्ययम् । तुङ्गी देश्याम् ; संस्कृतेऽपि ॥ . अथ तमिस्रा दर्शयामिनी । तमांसि विद्यन्तेऽस्यां तमिस्रा "तमिस्रार्णवज्योत्स्नाः" । २।५२ ॥ इति । निपात्यते ॥१॥ दर्शोऽमावास्या तस्य यामिनी । तमिस्रा तामसी रात्रिरित्यमरः ॥ २॥ . ज्योत्स्वी तु पूर्णिमारात्रिः ‘ज्योस्नाऽस्त्यस्यां ज्योत्स्नी "ज्योत्स्नादिभ्योऽण्" ॥ ७२॥३४ ॥ इत्यण् ॥१॥ पूर्णिमाया रात्रिः पूर्णिमारात्रिः, ज्योत्स्नी चन्द्रिकयाऽन्वितेत्यमरः ॥ गणरात्रो निशागणः ॥१७॥ गणा रात्रयः समाहृता गणरात्रः, पुंक्लीबलिङ्गः । “संख्यातैक-" ॥ १९ ॥ इत्यादिना अत्समासान्तः ॥ १॥ निशागणो निशासमूहः ॥२॥५॥ पक्षिणी पक्षतुल्याभ्यामहोभ्यां वेष्टिता निशा । पक्षौ विद्येते अस्याः पक्षिणी, वर्तमानागामिदिवसयोः पक्षयोरिव मध्ये वर्तमान. स्वात् । एवं निशयोर्मध्ये दिवसोऽपि पक्षीत्याहुः ॥ गर्भकं रजनीद्वन्द्वं गर्भयतीति गर्भकम्, अन्तर्भूतदिनत्वात् । रजनीद्वन्द्वं रात्रिद्वयम् ।।
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy