SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ ५६८ अभिधानचिन्तामणी संवीयते समजः “समुदोऽजः पशौ" || ५ | ३ | ३० ॥ इत्यल् ॥ १ ॥ समाजस्त्वन्यदेहिनाम् ॥ ५० ॥ संवीयते समाजः पशुभ्योऽन्येषां वृन्दम्, अत्र घञेव, यथा श्रोत्रियसमाजः॥ १॥ शुकादीनां गणे शौकमायूरतैत्तिरादयः । " शुकानाम्, मयूराणाम्, तित्तिराणां समूहः शौकम् ॥ १ ॥ मायूरम् ॥ २ ॥ तैतिरम् “षष्ठ्याः समूहे " ॥ ६ । २ । ९ ॥ इत्यण् ॥ ३॥ आदिग्रहणात् कापोतादयः । भिक्षादेशसाहस्रगार्भिणयौवतादयः ॥ ५१ ॥ भिक्षाणाम्, सहस्त्राणाम्, गर्भिणीनाम, युवतीनच समूहो भैक्षमित्यादयः॥१॥५१॥ गोत्रार्थप्रत्ययान्तानां स्युरौपगवकादयः । गोत्रमपत्यं तस्मिन्नर्थे विहिता येऽणादयः प्रत्ययास्तदन्तानामित्यर्थः, उपगोरपस्यानि औपगवास्तेषां समूह औपगवकं "मोत्रोक्ष- " ॥ ६ ॥ २ ॥१२॥ इत्यकञ् ॥१॥u आदिशब्दात् गार्गकादयः ॥ उक्षादेरौक्षकं मानुष्यकं वार्द्धकमैौष्टकम् ॥ १२ ॥ स्याद् राजपुत्रकं राजन्यकं राजकमाजकम् ।. वात्सकौर के उणां मूहः औक्षकम् एवमन्येऽपि " गोत्रोक्षवत्सोष्ट्रा दाजोर भ्रमनुष्यराजराजन्यराजपुत्रादकञ्” ॥ ६ । २ । १२ ॥ १ ॥ ५२ ॥ कावचिकं कवचिनामपि ॥ ५३ ॥ कवचिनां समूहः कावचिकम् " कवचिहस्त्यचित्ताच्चे कण्” ॥ ६ ।२।१४ ॥ १ ॥५३॥# हास्तिकं तु हस्तिनां स्यात् हस्तिनाम्, लिङ्गविशिष्टस्यापि ग्रहणात् हस्तिनीनां वा समूहो हास्तिकम् ॥ १ ॥ आपूपिकाद्यचेतसाम् । अपूपानां समूह आपूपिकम्, अचित्तत्वादिकं ॥ १ ॥ आदिग्रहणात् शाष्कुलिक- पार्वतिकादयः ॥ धेनूनां धैनुकंधेन्वन्तानां गौधेनुकादयः ॥ ५४ ॥ धेनूनां समूह धैनुकम् “घेनोरनञः” ॥ ६ । २ । १५ ॥ इतीकण, गोधेनूनां समूहों गोधेनुकम् ॥ १ ॥ ५४ ॥ कैदारकं कैदारिकं कैदार्यमपि तद्गणे । केदाराणां समूहः कैदारकम्, कैदार्यम् " केदारांण्ण्यश्च " ॥ ६२ ॥ १३ ॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy