SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ ५६४ अभिधानचिन्तामणौ मर्म वस्त्रपत्रादेः 'मृश् हिंसायाम् ' मृणाति मर्मर : " त्रतष्टित् " ॥ ( उणा ९ ) ॥ इत्यप्रत्ययः स्वरूपद्वित्वं च ॥ १ ॥ भूषणानां तु शिजितम् । भूषणानां वलयादीनां रवः शिञ्जनं शिञ्जितं ॥ ९ ॥ हेषा द्वेषा तुरंगाणाम् रव इति सर्वत्र संबध्यते हेषणं हेषा ||१|| हेषणं हेवा "केट : " || ५|३|१०६ ॥ इत्यः ॥ २ ॥ गर्जनं गजबृंहिते ॥ ४१ ॥ गर्जनं गर्जः, गर्जाऽपि ॥ १ ॥ ' बृहुङ् शब्दे' बृंहणं बृंहितम् ॥ २ ॥ ४१ ॥ विस्फारो धनुषाम् विस्फुरणं विस्फारः “ स्फुरस्फुलोर्घञ " || ४|२| ४ || इत्यात्वम् ॥ १ भारम्भे गोः अहमित्यंभते शब्दायते हंभा, हंभेत्यनुकरणं वा ॥ १ ॥ 'रभुङ् शब्दे ' रंभणं रंभा ॥ २ ॥ जलदस्य तु । स्तनितं गर्जितं गर्जिः स्वनितं रसितादि च ॥ ४२ ॥ स्तन्यते स्तनितं ॥ १ ॥ गर्जनं गर्जितं ॥ २ ॥ " पदिपठि ” ॥ ( उणा - ६०७ ) ॥ इति इ: प्रत्यये गर्जिः पुलिङ्गः || ३ || स्वननं स्वनितं ॥ ४ ॥ रसनं रसितम् आदिशब्दाद् ध्वनितादयः ॥ ५ ॥ ४२ ॥ कूजितं स्याद् विहङ्गानाम् कूजनं कूजितम् ॥ १ ॥ तिरश्चां रुतवाशिते । तिरश्चां मृगपक्षिणां ध्वनिः रवणं रुतम् ॥ १ ॥ ' वाशिच शब्दे' वाशनं वाशितम् ॥ २ ॥ वृकस्य रेषणं रेषा ८. ' रेषृङ् अव्यक्ते शब्दे ' रेष्यते रेषणम् ॥ १ ॥ “ केट:- " ॥ ५ । ३ । १०६ ॥ इत्यप्रत्यये रेषा ॥ २ ॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy