SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ ५६२ अभिधानचिन्तामणीआराव: " रोरुपसर्मात् " ॥ ५॥३२२ ॥ इति घञ् ॥ २० ॥ “ भाडो सप्लो: "" ॥५॥३॥४५॥ इति वाऽलि आरवः ॥२१॥ कण्यते क्वणनम् ॥२२॥ निक्कणमं निकणाः “ नेर्नद गदपठखनक्वणः " ॥ ५॥ ३ ॥ २६ ॥ इति वाइल् ॥ २३ ॥ कणनं वाणी ॥ २४ ॥ घनि निक्वाणः ॥ २५ ॥ " नवा कण-" ॥५।३। ४८ ॥ इत्यसि क्वण: ॥ २६ ॥ रणनं रणः “ युवर्ण-" ॥ ५ । ३ । २८ ॥ इत्यल् ॥२७॥॥३६॥ षड्ज-ऋषभ-गान्धारा मध्यमः पञ्चमस्तथा । भैवतो निषधः सप्त तन्त्रीकण्ठोद्भवाः स्वराः ।। ३७ ॥ षड्भ्यो जायते षड्जः, यद्वयडि:"कण्ठादुत्तिष्ठते व्यक्त षड्जः षड्भ्यस्तु जायते। . कण्ठोरुस्तालुनासाभ्यो जिवाया दशनादपि" ॥१॥ ऋषभो गोरुतसंवादित्वात्, यदाह व्यडि:"वायुः समुत्थितो नाभेः कण्ठशीर्षसमाहतः। नर्ददृषभवद् यस्मात् तेनैष ऋषभः स्मृतः ॥ ३॥ गां वाचं धारयलि गान्धारः गन्धवहमियर्ति वा । यदाहवायुः समुत्थितो नाभेः कण्ठशीर्षपमाहतः। . नानागन्धवहः पुण्यैः गान्धारस्तेन हेतुना ॥ ३ ॥ मध्ये भवो मध्यमः यदाह"तद्वदेवोत्थितो वायुरुरःकण्ठसमाहतः । नाभिप्राप्तो महानादो मध्यमस्तन हेतुना" ॥ ४ ॥ पश्चमस्थानभवत्वात् पञ्चमः यदाह- . "वायुः समुत्थितः नाभेमरोहत्कण्ठमूर्धसु । विचरन् पञ्चमस्थानप्राप्तया पञ्चमः उच्यते" ॥ ५ ॥ धिया वतो धीवतस्तस्याऽयं धैवत:, दधाति संधत्ते स्वरानिति वा; यदाह "अधिसंधीयते यस्मात् स्वस्तेिनैष धैवतः"। "पुतपित्त-" || ( उणा-२०४ ) ।। इति ते निपात्यते ॥६॥ निषीदन्ति स्वरा अत्र निषधो निषादाख्यः यदाह-"निषदिन्ति स्वस अस्मिन् निषादस्तेन हेतुना" । द्विधा हि वीणा-शारीरी दारुजातेति, तत्र दारुजायां तन्त्रीतः शारीयों कण्ठादुदभवन्ति तन्त्रीकण्ठोद्भवाः । वंशमुरजादयस्तु स्वरानुकारमात्रकारित्वात् स्वरहेतुत्वेन नेहोकाः ॥ ७ ॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy