SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ ५ नारक-काण्डः । ५४५ खेदाद् धर्माजायन्ते स्वेदजाः, आदिग्रहणान्मत्कुण-मशकादयः ॥ १ ॥ मत्स्यादयः संमूर्छनोद्भवाः ॥ ४२२ ॥ . आदिग्रहणात् सर्पादयः ॥ १ ॥ ४२२ ॥ खञ्जनास्तूद्भिदः बहुवचनादन्येऽपि शलभादयः ॥ १॥ अथोपपादुका देव-नारकाः। उपपद्यन्ते स्वयमित्येवंशीला उपपादुकाः ॥ १॥ उपसंहारमाह त्रसयोनय इत्यष्टौ त्रसानां जीवानां योनय उत्पत्तिस्थानानीति ॥ १॥ उद्भिदुद्भिजमुद्भिदम् ॥ ४२३ ।। उद्भिनत्ति भुवमुद्भिद् ॥ १॥ उद्भेदनमुद्भित् ततो जायते उद्भिजम् ॥ २॥ उद्भिनत्ति उद्भिदम् ॥ ३ ॥ ४२३ ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां स्वोपज्ञाभिधानचिन्तामणिनाममालाटीकायां तियकाण्डश्चतुर्थः ॥ ४ ॥ - -*- - || अहम् ॥ अथ नारककाण्डः। अथ पश्चमं नारककाण्डमारभ्यते स्युर्नारकास्तु परेत-प्रेत-यात्या-ऽतिवाहिकाः । नरके भवा नारकाः, यौगिकत्वाद् नारकिक-नैरयिक-नारकीयादयः ॥१॥ कर्मणां परावृत्त्या इताः परेताः ॥ २ ॥ प्रकर्षेण इताः प्रेताः ॥ ३ ॥ यात्यन्ते पाडां यात्याः ॥ ४ ॥ अतिवाह्यन्ते अतिवाहिकाः “कुशिकहृदिक-" ॥ (उणा-४५ ) ॥ इति साधुः ॥ ५ ॥ आजूर्विष्टिः आजवति आजू: "दिद्युद्दट्ट." ॥ ५। २ । ८३ ॥ इति क्विपि निपात्यते ॥१॥ वेवेष्टि विष्टिः नरके हठात् क्षेपः "हमुषि-" ॥ (उणा-६५१) ॥ इति कित्तिः। स्त्रीलीगावेतौ ॥२॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy