SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ ४ भूमिकाण्डः। ५३९ भासते भासस्तत्र ॥ १ ॥ शकुन्तः सामान्योऽपि विशेषे वर्तते ॥ २ ॥ कोयष्टौ शिखरी जलकुक्कुभः ।। ४०४ ॥ कवते शब्दायते कोयष्टि: “ कोर्यषादिः " ॥ ( उणा-६४८ ) ॥ इति तिस्तत्र । 'ओको यजते' इत्यन्ये ॥ १॥ शिखरं चूडाऽस्त्यस्य शिखरी ॥२॥ जलचारी कुक्कुभो जलकुक्कुभः ॥ ३ ॥ ४०४ ॥ पारापतः कलरवः कपोतो रक्तलोचनः । पारमापतति पारापतः, जपादित्वाद् वत्वे पारावतोऽपि ॥१॥ कलो मधुरो रवो ध्वनिरस्य कलरवः ॥ २ ॥ 'कबृङ् वर्णे' कव्यते कपोतः “ कबेरोतः प च " ॥ ( उणा- २१७) ॥ इति साधुः ॥ ३ ॥ रक्त लोचने अस्य रक्तलोचनः ॥ ४ ॥ ___ज्योत्स्नाप्रिये चलचञ्चु-चकोर-विषसूचकाः ॥ ४०५ ॥ ज्योत्स्ना प्रियाऽस्य ज्योत्स्नाप्रियस्तत्र ॥ १ ॥ चला चञ्चुरस्य चलचञ्चुः ॥२॥ चकते ज्योत्स्नया तृप्यति चकोरः “ कठिचकि-" ॥ ( उणा-४३३)॥ इत्योरः ॥ ३ ॥ विषं सूचयति विषसूचकः, यदाह-" चकोरस्य विरज्येते नयने विषदर्शनातू" इति ॥ ४ ॥ ४०५ ॥ जीवंजीवस्तु गुन्द्रालो विषदर्शनमृत्युकः । जीवेन सहचरेण जीवति जीवंजीवः, बाहुलकात् खः ॥ १॥ गुन्द्रामलति गुन्द्रालः ॥ २ ॥ विषदर्शनेन मृत्युरस्य विषदर्शनमृत्युकः ॥ ३ ॥ व्याघ्राटस्तु भरद्वाजः व्याजिघ्रन्नटति व्याघ्राटः ॥ १॥ भरन्तो वाजाः पक्षा अस्य भरद्वाजः ॥ २॥ .. प्लवस्तु गात्रसंप्लवः ॥ ४०६ ॥ प्लवते प्लवः ॥ १॥ गात्रेण संप्लवते गात्रसंप्लवः ॥ २ ॥४०६ ॥ तित्तिरिस्तु खरकोणः .तरत्यम्भसि तित्तिरिः “ तृभ्रम्यदि-"॥ ( उणा-६११)॥ इति इस्तित्तिरादेशश्च ॥ १ ॥ खरं कुणति शब्दायते खरकोणः ॥ २ ॥ हारीतस्तु मृदङ्कुरः। हरति जीवान् हारीतः “ हृग ईतण" ॥ ( उणा-२१३ ) ॥ हारिणं वर्णमितो वा॥ १ ॥ मृदमङ्कुरयति मृदङ्कुरः ॥ २ ॥ कारण्डवस्तु मरुलः ... करोति शब्दं कारण्डवः “ कैरव-" ॥ ( उणा-५१९)॥ इत्यवे निपात्यते,
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy