SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ ५३८ आभिधानचिन्तामणौ कित् कः 'शुक गतौ ' शोकति गच्छ्तीति वा ॥ २ ॥ रक्तं तुण्डं चञ्चुरस्य रक्त तुण्डः ॥ ३ ॥ फलान्यत्ति फलादनः । मेधाव्यपि ॥ ४ ॥ ४०१॥ शेषश्चात्र शुके तु प्रियदर्शनः । श्रीमान् मेधातिथिर्वाग्मी ॥ शारिका तु पीतपादा गौराटी गोकिराटिका । शृणाति फलं शारिका ॥ १ ॥ पीती पादावस्याः पीतपादा ॥ २ ॥ गां रटक्ति गोराटी ॥ ३ ॥ गां किरति गोकिराटी “ किरो लश्च वा " ॥ ( उणा-१४७ ) ॥ इत्यादः ॥ ४ ॥ ____ स्याचर्मचटकायां तु जतुकाऽजिनपत्रिका ॥ ४०२॥ चर्ममयी चटका चर्मचटका निर्लोमत्वात् तत्र ॥ १ ॥ जत्विव कृष्णपिङ्गत्वात् जतुका ॥ २ ॥ अजिनं पत्राणि पक्षा अस्या अजिनपत्रिका ॥ ३ ॥ ४.२ ॥ वल्गुलिका मुखविष्ठा परोष्णी तैलपायिका । वल्गु लाति वल्गुला, के वल्गुलिका ॥ १ ॥ मुखेन विष्ठा अस्या मुखविष्ठा ॥२॥ परं प्रकृष्टमुष्णमस्याः परोष्णी, शीतासहत्वात, परं विरुद्धमुष्णं तेजोऽस्या इति वा, तेजसान्धकारात् ॥३॥ तैलं पिबतीव तैलपायिका, नित्यमास्यविकासात् । निशादन्यपि ॥ ४ ॥ ___ करेटुः करेटुः स्यात् करटुः कर्कराटुकुः ।। ४०३ ॥ 'कर्क' इति रेटते कर्करेटुः ॥१॥ 'क' इति रेटते रटति च करेटुः, करटुः ॥२॥ ॥३॥ कर्कति कर्कराटः, “केवयुभुरणु-* ॥ (उणा-७४६) ॥ इति उप्रत्यये निपात्यते ॥ ४ ॥ ४०३ ॥ __ आटिरातिः शरारिः स्यात् आतत्याटिः, बाहुलकात् णिदिः ॥ १॥ अतत्यातिः “पादाश्चात्यजिभ्याम्" ॥ ( उणा-६२० ) ॥ इति णिदिः ॥ २ ॥ शृणन्त्येनो शरारिः “ बहुलम्" ॥५॥१२॥ इत्यारिः ॥ ३ ॥ एते स्त्रीलिङ्गाः ।। कृकण-क्रकरौ समौ । करोति शब्दं कृकणः " चिक्कण-" ॥ ( उणा-१९० ) ॥ इत्यणे निपात्यते 'कृ' इति कणति वा, कृकं नयति वा ॥ १ ॥ करोति शब्दं क्रकर: गौरतित्तिरिः "जठर -" ॥ (उणा-४०३) ॥ इत्यरे निपात्यते, 'क' इति करोति वाश्यते वा ॥२॥ भासे शकुन्तः
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy