SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ ५३४ अभिधानचिन्तामणौ-. . शेषश्वात्र . हंसेषु तु मरालाः स्युः ॥ राजहंसास्त्वमी चञ्चुचरणैरतिलोहितैः। हंसानां राजानो राजहंसाः, अमी इति हंसाः, चञ्चुसहितैश्चरणैरिति लक्षणे तृतीया ॥१॥ . मल्लिकाक्षास्तु मलिनैः । चञ्चुचरणैरित्यधिकारः, मल्लिकाकारे अक्षिणी एषां मल्लिकाक्षाः; शुक्लापाङ्गत्वात् ॥१॥ ___ धार्तराष्ट्राः सितैतरैः ॥ ३९२ ॥ कृष्णैश्चञ्चुचरणैः, धृतराष्ट्रेऽमाये भवा धार्तराष्ट्राः, राजहंसेभ्यो न्यूनत्वात् , धृतराष्ट्रा एव वा, प्रज्ञादित्वादण् ॥ १ ॥ ३९२ ॥ · कादम्बास्तु कलहंसाः पक्षैः स्युरतिधूसरैः । कदि वैक्लव्ये पौत्रः, कदन्ते प्रावृषि विक्लवन्ते कादम्बाः " कदेर्णिद्वा" ॥ ( उणा -३२२ ) ॥ इत्यम्बः, कदम्बस्यमै संघचारित्वादिति वा ॥ १ ॥ कलध्वनयो - हंसा: कलहंसाः ॥२॥ वारला वरला हंसी वारटा वरटा च सा ॥ ३९३ ॥ वियते वारला " मुरल-" ॥ ( उणा-४७४ ) ॥ इत्यले निपात्यते, वाः पानीयमलति वा ॥ १ ॥ वरं लाति वरला ॥ २ ॥ हंसी हंसकान्ता ॥ ३ ॥ वारि सलिले अटति वारटा ॥ ४ ॥ वियते वरटा "दिव्यवि-" ॥ ( उणा-१४२ )। इत्यटः ॥ ५ ॥ ३९३ ॥ दावाघाटः शतपत्रः दारु आहन्ति दाघाटः “कर्मणोऽण" ॥ ५। १ । ७२ ॥ इत्यणि पृषोदरादित्वात् टत्वम् , दारु आघटते वा ॥१॥ शतं बहूनि पत्राणि पक्षा अस्य शतपत्रः ॥२॥ खञ्जरीटस्तु खञ्जनः । खजति खञ्जरीट: " खनेररीटः " ॥ ( उणा-१५२ )॥ १ ॥ “य्वसिरसि-" ॥ ( उणा-२६९) ॥ इत्यने खञ्जनः ॥ २ ॥ सारसस्तु लक्ष्मणः स्यात् पुष्कराख्यः कुरङ्करः ॥ ३९४ ॥ सरति सारस: “ मृवयिभ्यां णित् "॥ ( उणा-५७० ) ॥ इत्यसः, सरसि भवो वा ॥ १ ॥ लक्ष्मीरस्त्यस्य लक्ष्मणः ॥ २ ॥ पुष्करस्य पद्मस्य आख्याऽस्य पुष्कराख्यः ॥ ३ ॥ कुरमिति शब्दं करोति कुरङ्करः ॥ ४ ॥ ३९४ ॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy