SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ ४ भूमिकाण्डः । ५३३ मद्गुस्तु जलवायसः ।। ३८९ ।। मजति जले मद्गुः "भृमृतृ." ॥ ( उणा--७१६) ॥ इत्युः, न्यव दित्वाद् गत्वम् ॥ १ ॥ जलचारी वायसा जलवायसः ॥ २ ॥ ३८९ ॥ घूके निशाटः काकारिः कौशिको लूक-पेचकाः । दिवान्धः घवते शब्दायते घूकः " घुयुहि- " ॥ ( उणा-२४ ) ॥ इति को दीर्घत्वं चं, घूशब्दं करोति वा, तत्र ॥ १ ॥ निशायामटति निशाटः ॥ २ ॥ काकामामरिः काकारिः ॥३॥ कोशः प्रयोजनमस्य कौशिकः, बिलेशयत्वात् , कुशिकस्यापत्यमिति वा, की शेते इति वा, पृषोदरादित्वात् ॥ ४ ॥ अलत्युलूकः "शम्बूक" ॥ ( उणा६१) ॥ इत्यूके निपात्यते, ऊचैलॊक्यते, ऊौ कर्णावस्येति वा. पृषोदरादित्वात् ॥५॥ पचति पेचक: “कीचक-* ॥ ( उणा--३३) । इत्य के निपात्यते ॥ ६ ॥ दिवा दिवसेऽन्धो दिवान्धः ॥ ७ ॥ अथ निशावेदी कुक्कुटश्चरणायुधः ॥ ३९० ॥ कृकवाकुस्ताम्रचूडो विवृताक्षः शिखण्डिकः । निशां वेदयति ज्ञापयांत निशावेदी ॥ १ ॥ कोकते गृह्णाति क्षुद्रेजन्तून् कुक्कुटः पुंक्लोबलिङ्गः “नकुटकुक्कुट-" ॥ ( उणा--१५५ ) ॥ इत्युटे निपात्यते, कुगित्युच्चारणेन कुटतोति वा ॥ २ ॥ चरणावेव आयुधमस्य चरणायुधः ॥ ३ ॥ ३९ ॥ कृकेण शिरोग्रीवेण, कृकमव्यक्तं वा वक्ति कृकवाकुः “कृकस्थूराद्वचः क् च" ॥ ( उणा--७२ ८ ) ॥ इति णिदुः ।। ४ ।। ताम्रा चूडाऽस्य ताम्रचूडः ॥ ५ ॥ विवृते भक्षिणी अस्य विवृताक्षः ॥ ६ ॥ शिखण्डोऽस्त्यस्य शिखण्डिकः ॥ ७ ॥ . शेषश्चात्र कुक्कुटे तु दीर्घनादश्चर्मचूडो नखायुधः । मयूरचटकः शौण्डो रणेच्छुश्च कलाधिकः ॥ आरणी विकिरो बोधिनन्दीकः पुष्टिवर्धनः । चित्रवाजो महायोगी स्वस्तिको मणिकण्ठकः ॥ उषाकीलो विशाकश्च वाजस्तु ग्रामकुक्कुटः ॥ हंसाश्चक्राङ्ग-वक्राङ्ग-मानसौकः सितच्छदाः ॥ ३९१ ॥ घ्नन्ति गच्छन्ति हंसाः “मावावदि-" || ( उणा--५६४ ) ।। इति सः ॥ १ ॥ चक्राकारमङ्गमषां वृत्तत्वाचक्राङ्गाः ॥ २ ॥ वक्रमगमेषां वक्राङ्गाः ।। ३ ।। मामसाख्ये देवसरसि ओक एषां मानसौकसः ॥४॥ सिताश्छदा एषां सितच्छदाः ॥५॥३९१॥ .. ६८
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy