________________
५३२
अभिधानचिन्तामणौ- .. वनं प्रियमस्य वनप्रियः ॥ १ ॥ परेण अन्येन भ्रियते पुष्यते परभृतः, काकी. . पुष्टत्वात् । अन्यभृत-परपुष्टावपि ॥ २ ॥ ताने अक्षिणी अस्य ताम्राक्षः ॥३॥ कोकते चित्तं गृह्णाति कोकिल: "कल्यनि-" ॥ ( उणा-४८१ ) ॥ इतीलः, स्त्रियामजादि. त्वादापि कोकिला ॥ ४ ॥ पिबति चूतरसं पिक: "पापुलि. ॥ ( उणा-४१) ॥ इति किदिकः, अपिकायति वा, पृषोदरादित्वात् ॥ ५ ॥ कलः कण्ठोऽस्य कलकण्ठः ॥६॥ काकेन पुष्यते काकपुष्टः ॥ ७ ॥ शेषश्चात्र
कोकिले तु मदोल्लापी काकजातो रतोद्वहः । मधुघोषो मधुकण्ठः सुधाकण्ठः कुहूमुखः ।। घोषयित्नुः पोषयित्नुः कामताल: कुनालिकः ॥ काकोऽरिष्टः सकृत्प्रजः ॥ ३८७॥
आत्मघोषश्चिरजीवी घूकारिः करटो द्विकः ।
एकदृग् बलिभुग् ध्वाक्षो मौकुलिवायसोऽन्यभृत् ॥३८॥ कायति काकः “भीणशलि-" ॥ (उणा-२१) ॥ इति कः, काशब्दं कायति वा, ककते लोल्यादिति वा, ईषत् कायति वा ॥ १॥ नास्ति रिष्टं मरणमस्य, अमृतभुक्तत्वादरिष्टः ॥ २॥ सकृदेकवारं प्रजायते सकृत्प्रजः, सकृत् प्रजाऽपत्यमस्य वा ॥३॥ ३८७ ॥ आत्मनः स्वनाम्नो घोषोऽस्य आत्मघोषः, काकेति वाशनात ॥ ४ ॥ चिरं जीवति चिरजीवी ॥ ५॥ घूकानामरिः घूकारिः ॥ ६॥ करोति शब्दं करट: "दिव्यवि." ॥ ( उणा-१४२ ) इत्यटः, 'क' इति रटतीति वा ॥७॥ द्वौ ककारौ नाम्न्यस्य द्विक: ॥८॥ एका दृक्, एकदृगस्य रामेण काणीकृतत्वात् ॥९॥ बलिं भुङ्क्ते बलिभुक्, वैश्वदेवभागार्हत्वात् । बलिपुष्टोऽपि ॥१०॥ ध्वाङ्क्षति काङ्क्षति ध्वाङ्क्षः ॥ ११ ॥ माति मौकुलिः "माशालिभ्यामोकुलिमली" ॥ ( उणा--७०३) ॥ इत्योकुलिः ॥ १२ ॥ वयते वायसः "सृवयिभ्यां णित्" ॥ ( उणा-५७० ) ॥ इत्यस:, वया एव वा, प्रज्ञादित्वादः ॥ १३ ॥ अन्यान् पिकान् बिभर्ति पुष्णात्यन्य. भृत् ॥ १४ ॥ ३८८ ॥
वृद्ध-द्रोण-दग्ध-कृष्ण-पर्वतेभ्यस्त्वसौ परः ।
वनाश्रयश्च काकोलः वृद्धादिभ्यः परोऽसौ काकः वृद्धकाकः ॥ १ ॥ 'द्रुणत् हिंसायाम्' द्रोणकाकः । द्रोणोऽपि ॥ २॥ दग्धकाकः ॥ ३ ॥ कृष्णकाकः ॥ ४ ॥ पर्वतकाकः ॥ ५॥ वनमाश्रयोऽस्य वनाश्रयः ॥ ६ ॥ ईषत् कोलति काकोलः ॥ ७ ॥