________________
५३०
अभिधानचिन्तामणीवारङ्गि-नाडीचरणौ ॥ चञ्चुश्चञ्चूः सृपाटिका ।
त्रोटिश्च चञ्चत्यनया चञ्चुः " भृमृत-" ॥ (उणा-७१६ ) ॥ इत्युः ॥ १ ॥ “ कृषिचमि-" ॥ ( उणा-८२९ ) ॥ इति बहुवचनादूप्रत्यये चञ्चूः ॥ २॥ सर्पति चलति सपाटी " सृस्पे: कित् " ॥ ( उणा-१४६ ) ॥ के सूपाटिका ॥ ३ ॥ त्रोटयति नोटिः ॥ ४ ॥ एते स्त्रीलिङ्गाः॥
पत्त्रं पतत्त्रं पिच्छं वाजस्तनूरुहम् ॥ ३८३ ॥ ..
पक्षो गरुच्छदश्चापि पतन्त्यनेन पत्त्रं " नीदाम्ब्-" ॥५।२।८८॥ इति त्रट् ॥ १॥" वृगनक्षि-" ॥ ( उणा-४५६ ) ॥ इत्यत्रे पतत्त्रम्, पतन्तं त्रायते वा ॥ २॥ पीयते पिच्छं “पीपूडो ह्रस्वश्च" ॥ (उणा-१२५) ॥ इति छक् । पिच्छमपि ॥ ३ ॥ वजत्यनेन वाजः ॥ ४ ॥ तन्वां रोहति तनूरुहं पुंक्तीबलिङ्गः ॥ ५ ॥ ३८३ ॥ पच्यते कालेन पक्षः " मावावदि-" ॥ ( उणा-५६४ ) ॥ इति सः ॥ ६ ॥ गिरति खं गरुत् "प्रो मादिर्वा" ॥ ( उणा-८९० ) इत्युत् ॥ ७ ॥ छाद्यतेऽनेन छदः ॥८॥ पुंक्लीबलिङ्गावेतौ॥
पक्षमूलं तु पक्षतिः । पक्षस्य मूलं पक्षतिः स्त्रीलिङ्गः " पक्षात् तिः " ॥ ७॥ १। ८९ ॥ १ ॥
प्रडीनो-ड्डीन-सण्डीन-डयनानि नभोगतौ ॥ ३८४ ॥ प्रडयनं प्रडीनं " क्लीबे क्तः " ॥ ५ । ३ । १२३ ॥ " सूयत्यादि-" ॥ ४ ॥ २॥ ७० ॥ इति क्तस्य नत्वम् ॥१॥ एवमुड्डीनम् ॥२॥ सण्डीयते सण्डीनम् ॥३॥ डीयते डयनम् ॥ ४ ॥ नभसि गमनं नभोगतिस्तस्याम् ॥ ५ ॥ ३८४ ॥
पेशीकोशोऽण्डे पेशीनां मांसखण्डानां कोशः ॥ १ ॥ अमति निःसरत्यस्मादण्डं पुंक्लोबलिङ्गः "पश्च माद्-" ॥ ( उणा-१६८ ) ॥ इति डः तत्र। तिस्रः संज्ञा इति गौडः ॥ २ ॥
कुलायो नीडे कोलन्त्यत्र कुलाय: "कुलिलुलि-" ॥ ( उणा-३७२ ) ॥ इति कायः, कुलमेति वा ॥ १ ॥ नीयते नीडः, त्रिलिङ्गः "कुगुहुनी-" ॥ ( उणा-१७० ) ।। इति कित् डस्तत्र ॥ २ ॥