SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ ४ भूमिकाण्डः । ५२७ वासुकिस्तु सर्पराजः श्वेतो नीलसरोजवान् ॥ ३७४ ॥ वसुकस्यापत्यं वासुकिः, सर्पाणां राजा सर्पराजः, श्वेतवर्णो नीलोत्पललाञ्छनवायम् ॥ १ ॥ ३७४ ॥ तक्षकस्तु लोहिताङ्गः स्वस्तिकाङ्कितमस्तकः । तक्ष्णोति रिपून तक्षकः ॥ १॥ महापद्मस्त्वतिशुक्लो दशबिन्दुकमस्तकः ॥ ३७५ ।। महान्ति पद्मान्यस्य महापद्मः ॥ १॥ ३७५ ॥ शङ्खस्तु पीतो बिभ्राणो रेखामिन्दुसितां गले । शाम्यति शङ्खः ॥ १॥ कुलिकोऽर्धचन्द्रमौलिालाधूमसमप्रभः ॥ ३७६ ॥ प्रशस्यं कुलमस्त्यस्य कुलिकः ॥ १॥ ३७६ ॥ अथ कम्बला-ऽश्वतर-धृतराष्ट्र-बलाहकाः । कामयते कम्बलः ॥ १ ॥ अश्ववत् तरति अश्वतरः ॥ २ ॥ धृतं राष्ट्रमनेन धृतराष्ट्रः ॥ ३ ॥ बलते बलाहकः ॥ ४ ॥ एवंनामानश्चत्वारो नागाः ॥ इत्यादयोऽपरे नागास्तत्तत्कुलसमुद्भवाः ॥ ३७७ ॥ आदिग्रहणाद् महानीलादयः; यदाह"महानीलः कुरहश्च पुष्पदन्तश्च दुमुखः । कपिलो वामनः शङ्कुरोमा च करवीरकः ॥१॥ एलापत्रः शुक्तिकर्ण-हस्तिभद्र-धनञ्जयाः । दधिमुख: समानासोत्तंसको दधिपूरणः ॥ २ ॥ हारिद्रको दधिकों मणिः शृङ्गारपिण्डकः । कालियः शङ्खकूटश्च चित्रकः शङ्ख चूडकः ॥ ३ ॥ इत्यादयोऽपरे नागास्तत्तत्कुलप्रसूतयः ॥" इति ॥ १ ॥ ३७७ ।। निर्मुक्तो मुक्तनिर्मोकः निर्मुच्यते स्म निर्मुक्तः ॥१॥ मुक्तो निर्मोकोऽनेन मुक्तनिर्मोकः ॥२॥ उपसंहारमाह सविषा निर्विषाश्च ते । ते सर्पा: सविषा नागादयः, निर्विषा अजगरादयः ॥ १॥ नागाः स्युईविषाः
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy