SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ ५२२ अभिधानचिन्तामणौ___ शशति प्लवते शशः ॥ १ ॥ मृदूनि लोमान्यस्य मृदुलोमकः ॥ २ ॥ ३६१ ॥ . शूलमस्त्यस्य शूलिकः ॥ ३ ॥ लोमाकीर्णो कर्णावस्य लोमकर्णः ॥ ४ ॥ अथ शल्ये शलल-शल्यको। श्वाविच शलति चलति शल्यः "स्थाछामा-" ॥ । उणा-३५७ ) ॥ इति यः ॥१॥ "मृदिकन्दि-' ॥ ( उणा- ४६५) ।। इत्यले शललः ॥ २ ॥ शल्यानि किरति शल्यकः पुंक्लीबलिङ्गः "क्वचित्" ।। ५।१।१७१॥ इति डः ॥ ३ ॥ श्वानं विध्यति श्वावित् “ घजुपसर्गस्य-" ॥ ३।२।८६ ।। इति दीर्घः ॥४॥ ___ तच्छलाकायां शललं शलमित्यपि ॥ ३६२ ॥ तस्य श्वाविधो रोमशलाकायां शलति शललं त्रिीलङ्गः ॥ १ ॥ आचि शलम् ॥ २ ॥ ३६२ ॥. गोधा निहाका गुध्यति गोधा ॥१॥ नितरां जहाति निहाका “ भीण्शलि-" ॥ ( उपा-२१) इति कः । एतौ पुंध्वजेऽपि स्त्रीलिङ्गौ ॥ २ ॥ गौधेर-गौधारौ दुष्टतत्सुते। ___ गोधाया दुष्टमपत्यं गौधेरः, गौधारः "गोधाया दुष्टे णारश्च " ॥ ६॥1॥८१॥ इति एरण् णारश्च प्रत्ययौ ॥१॥२॥ गौधेयोऽन्यत्र दुष्टादन्यत्र शुभ्रादित्वादेयणेव ॥ १ ॥ मुसली गोधिका-गोलिके गृहात् ॥ ३६३ ॥ माणिक्या भित्तिका पल्ली कुड्यमत्स्यो गृहोलिका । मुस्यति भित्तिर्मुसली ॥१॥ गृहशब्दात् परे गोधिका गोलिका च गृहं गुध्यति गृहगोधिका, गृहस्य गोधव वा ॥२॥ गृहं गुडति गृहगोलिका ॥३॥३६३॥ माणिक्यमस्त्यस्या माणिक्या, शिरोमणियुतत्वात् ॥ ४ ॥ भित्तो कायति शब्दायते भित्तिका ॥५॥ पल्लति गच्छति पल्ली ॥६॥ कुड्ये मत्स्य इव कुड्य मत्स्यः ॥ ७॥ गृणाति क्षुइजन्तून् गृहोली “ ग्रह्याद्भ्यः कित्" ॥ ( उणा-४९४ ) ॥ इत्योल: के गृहा लेका ॥ ८॥ स्यादञ्जनाधिका हालिन्यञ्जनिका हलाहलः ।। ३६४ ॥ __ अञ्जनेनाऽधिका अञ्जनाधिका ॥ १ ॥ हलत्यवश्यं हालिनी ॥ २ ॥ अञ्जयत्यञ्जन। केऽजनिका ॥ ३ ॥ हलति न हलति च हलाहलः ॥ ४ ॥ ॥ ३६४ ॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy