________________
· अभिधानचिन्तामणौकोकस्त्वीहामृगो वृकः ।
अरण्यश्वा कोकतेऽजादिकमादत्ते कोकः ॥ १ ॥ ईहया मृग्यते ईहामृगः, ईहा मृगस्येवास्य वा ॥२॥ 'कुकि वाक आदाने' वर्कतेऽजादिकमादत्ते वृकः, वृणोतीति वा "विचि. पुषि-" ॥ उणा-२२ । ॥ इति कित कः ॥ ३ ॥ अरण्यस्य श्वा अरण्यश्वा ॥४॥
मर्कटस्तु कपिः कीशः प्लवङ्गमः ॥ ३५७ । प्लवङ्गः प्लवगः शाखामृगो हरिबलीमुखः ।
वनौका वानरः 'मार्केः सौत्रः' मर्कति मर्कटः “ दिव्यवि-"॥ ( उणा-१४२ ) ॥ इत्यटः ॥१॥ कम्पते चलति कपिः “ अम्भिकुण्ठि-"। ( उणा-६१४ ) ॥ इति इनलोपश्च ॥ २ ॥ चिकेति जानाति कीशः “ तिनिश-" ॥ ( उणा-५३७) ॥ इति इशे निपात्यते, कीति शब्दमीष्टे वा ॥ ३ ॥ प्लवेन गच्छति प्लवङ्गमः, प्लवङ्गः, प्लवंगः " नाम्नो गमः खड्डौ च-" ॥५।१।१३१ ॥ इति साधवः ॥४॥५॥ ६ ॥ प्रवङ्गोऽपि ॥ ३५७ ।। शाखासंचारी मृगः शाखामृगः ॥ ७ ॥ हरति हरिः ॥ ८ ॥ बल्यस्त्वक्सकोचा मुखेऽस्य बलीमुखः ॥ ९ ॥ बने ओकोऽस्य वनौकाः ॥ १०॥ वनति वनं वानरः “ जठर-" ॥ ( उणा-४०३ ) ॥ इत्यरे निपात्यते, वने रमते वनरस्तस्यायमिति वा, पक्षे नरो वा ॥ ११ ॥
अथासौ गोलाङ्गलोऽसिताननः ॥ ३५८ ।। असौ वानरः कृष्णमुखः, गोरिव लम्ब लागॅलमस्य गोलाङ्गेलः, गां लक्कृति उल्लङ्घते वा ॥ १ ॥ ३५८ ॥
मृगः कुरङ्गः सारङ्गो वातायु-हरिणावपि । मृग्यते व्याधैर्मृगः ॥ १॥ कुरति मार्यमाणः कुरङ्गः "विडिविलि-" ।। (उणा-१०१) ॥ इति किदङ्गः, को रगतीति वा ॥ २॥ सरति सारङ्गः "सृवृनभ्यो णित्" ॥ ( उणा-९९ ) ॥ इत्यङ्गः, सारं गच्छतीति वा ॥ ३ ॥ वातमेति पातायुः "कृवापाजि." ॥ (उमा-१) ॥ इत्युण् । 'वातं शुष्कमयते वातायुः' इत्यन्ये ॥ ४ ॥ ह्रियते गीतेन हरिणः “द्रुहृवृहि-" ॥ ( उणा-१९४ ) ॥ इतीणः ॥ ५ ॥ शेषश्चात्र
मृगे त्वजिनयोनिः स्यात् ॥ मृगभेदा रुरु-न्यङ्कु-रङ्कु-गोकर्ण-शवराः ॥ ३५९ ॥