SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणौपूर्वकोट्यायुषः पञ्चधनुःशतसमुच्छ्याः ॥४७॥ वर्षाणां सप्ततिः कोटिलक्षा षट्पञ्चाशच वर्षकोटिसहस्राः पूर्वम्, तत्कोव्यायुष इति ॥ ४७ ॥ पञ्चमे तु वर्षशतायुषः सप्तकरोच्छ्याः । षष्ठे पुनः षोडशाब्दायुषो हस्तसमुच्छ्याः ॥४॥ एकान्तदुःखप्रचिता उत्सर्पिण्यामपीदृशाः । पश्चानुपूर्व्या विज्ञेया अरेषु किल षट्स्वपि ॥४९॥ स्पष्टौ ॥४८॥४९॥ अष्टादश निमेषाः स्युः काष्ठा निमेषोऽक्षिस्पन्दकालः, काशते काष्ठा “वनिकणिकाश्युषिभ्यष्ठ :" ॥ (उणा१६२) ॥ इति ठः॥ काष्ठाद्वयं लवः। लुनाति परिच्छिनत्ति कालमिति लवः ॥ कला तैः पञ्चदशभिः तैलवैः कलयति कालं कला ॥ लेशस्तहितयेन च ॥५०॥ लिश्यतेऽल्पीभवति लेशः, तस्याः कलाया द्वितयेन तद्वितयेन ॥५०॥ क्षणस्तैः पञ्चदशभिः क्षणोति क्षणः, तैलेशैः ॥ क्षणैः षेड्मिस्तु नाडिका । सा धारिका घटिका च - णल गन्धे, नलति गन्धति अर्दति नाली, ज्वलादित्वात् णः, नाल्येव नालिका; उलयोरैक्ये नाडिका । नडण् अवस्कन्दने, इत्यस्य नाडीति नन्दी ॥१॥सा नाडिका, धारयति कालं धारिका ॥२॥ घटयति कालं घटिका चोच्यते ॥३॥ मुहूर्तस्त हयेन च ॥५१॥ हूर्च्छति मुहूर्तः, पुंक्लीबलिङ्गः । “पुतपित्त-" ॥ ( उणा-२०४ ) ॥ इति तान्तो निपात्यते, मुहुरियर्ति वा, पृषोदरादित्वात् । तयोर्घटिकयोद्वयेन तवयेन ॥५१॥ . त्रिंशता तैरहोरात्रः (१) निमेषास्तु इत्यपि । (२) षड्भिश्चेत्यपि ।
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy