________________
५१
२ देवकाण्डः । सैका सहस्रैर्वर्षाणां द्विचत्वारिंशतोनिता ॥४४॥ दुःषमा चासौ सुषमा च दुःषमसुषमा, दु:षमानुभावबहुला; अल्पसुषमानुभावेत्यर्थः । तदाख्यश्चतुर्थोऽरः, सा सागरोपमकोटिकोटी एका एकसंख्या द्विचत्वारिंशद्वर्षसहस्रैरूना ॥४४॥
अथ दुःषमैकविंशतिरब्दसहस्राणि दुःषमाख्यः पञ्चमोऽरः, एकविंशतिवर्षसहस्राणि ॥
तावती तु स्यात् ।
एकान्तदुःषमाऽपि हि एकान्तेन दुःषमा सुषमानुभावरहिता एकान्तदुःषमा; दुःषमदुःषमेत्यर्थः । तदाख्यः षष्ठोऽरः, तावती दुःषमावदेकविंशतिवर्षसहस्रप्रमाणा ॥
एतत्संख्याः परेऽपि विपरीताः ।।४५|| एषैव अवसर्पिण्यरकोक्ता संख्या येषां त एतत्संख्याः, परेऽपि उत्सर्पिण्यरका अपि, विपरीताः प्रतिलोमवृत्तयः एकान्तदुःषमाराद्या: एकान्तसुषमारपर्यन्ता भवन्ति ॥४५॥
प्रथमेऽरत्रये मास्त्रियेकपल्यजीविताः । त्रिव्येकगव्यूतोच्छ्रायास्त्रियेकदिनभोजनाः ॥४६॥
कल्पद्रुफलसन्तुष्टाः त्रीणि द्वे एकं च पल्यं पल्योपमं जीवितं येषां ते तथा । पल्यमिति धान्याधारविशेषः ॥ इह तु तत्प्रतिकृतिरायामविष्कम्भावगाहैर्योजनप्रमाणः प्रदेश उच्यते । स चैकाहिकादिभिः साप्ताहिकपर्यन्तैः केशलेशैः पुनरसंख्यातखण्डीकृतैर्भूतः, उपरि च लोहशकटेनाप्यन्यग्भूतो वर्षशते च गते एकैकवालाग्रापनयने यावता कालेन निर्लेपो भवति, तावान् कालः पल्योपमम् , अद्धापल्योपममित्युच्यते। त्रीणि द्वे एकं च गव्यूतं क्रोशं उच्छ्रायो येषां ते तथा । त्रिषु द्वयोरेकस्मिंश्च दिने गते भोजनं येषां ते तथा । तत्र प्रथमे अरके मास्त्रिपल्योपमजीविताः, त्रिगव्यूतोच्छ्रायाः, चतुर्थदिनभोजिनो भवन्ति; द्वितीयेऽरके द्विपल्योपमजीविताः, द्विगव्यूतोच्छ्रायाः, तृतीयदिनभोजिनों भवन्ति; तृतीयेऽरके एकपल्योपमजीविताः, एकगव्यूतोच्छ्रायाः, द्वितीयदिनभोजिनो भवन्तीति यथासंख्यार्थः ॥४६॥ ते च कल्पद्रुमफलैः सन्तुष्टा भवन्ति; कल्पद्रुमफलान्याहरन्तीत्यर्थः।
____ चतुर्थे त्वरके नराः ।